Sri Bagalamukhi Varna Kavacham – श्री बगलामुखी वर्ण कवचम्


अस्य श्रीबगलामुखीवर्णकवचस्य श्रीपरमेश्वरऋषिः अनुष्टुप् छन्दः श्रीबगलामुखी देवता ओं बीजं ह्लीं शक्तिः स्वाहा कीलकं बगलाप्रसाद सिद्ध्यर्थे जपे विनियोगः ।

ध्यानम् ।
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥

कवचम् ।
प्रणवो मे शिरः पातु ललाटे ह्लीं सदाऽवतु ।
बकारो भ्रूयुगं पातु गकारः पातु लोचने ॥ १ ॥

लकारः पातु मे जिह्वां मुकारं पातु मे श्रुतिम् ।
खिकारं पातु मे तालु सकारं चिबुकं तथा ॥ २ ॥

वकारः पातु मे कण्ठं स्कन्धौ पातु दकारकः ।
बाहू ष्टकारकः पातु करौ पातु नकारकः ॥ ३ ॥

स्तनौ वकारकः पातु चकारो हृदयं मम ।
मकारः पातु मे नाभौ खकारो जठरं मम ॥ ४ ॥

कुक्षिं पकारकः पातु दकारः पातु मे कटिम् ।
स्तकारो जघनं पातु भकारः पातु मे गुदम् ॥ ५ ॥

गुह्यं यकारकः पातु जकारोऽवतु जानुनी ।
ऊरू ह्वकारकः पातु गुल्फौ पातु ककारकः ॥ ६ ॥

पादौ लकारकः पातु यकारो स्छिति सर्वदा ।
बुकारः पातु रोमाणि धिकारस्तु त्वचं तथा ॥ ७ ॥

विकारः पातु सर्वाङ्गे नकारः पातु सर्वदा ।
प्राच्यां शकारकः पातु दक्षिणाश्यां यकारकः ॥ ८ ॥

वारुणीं ह्लीं सदा पातु कौबेर्यां प्रणवेन तु ।
भूमौ स्वकारकः पातु हकारोर्ध्वं सदाऽवतु ॥ ९ ॥

ब्रह्मास्त्रदेवता पातु सर्वाङ्गे सर्वसन्धिषु ।
इति ते कथितं देवि दिव्यमक्षरपञ्जरम् ॥ १० ॥

आयुरारोग्य सिद्ध्यर्थं महदैश्वर्यदायकम् ।
लिखित्वा ताडपत्रे तु कण्ठे बाहौ च धारयेत् ॥ ११ ॥

देवासुरपिशाचेभ्यो भयं तस्य न हि क्वचित् ।
कर्मणेन सन्दर्शो त्रिषुलोकेषु सिद्ध्यते ॥ १२ ॥

महाभये राजे तु शतवारं पठेद्यहम् ।
गृहे रणे विवादे च सर्वापत्ति विमुच्यते ॥ १३ ॥

एतत्कवचमज्ञात्वा यो ब्रह्मास्त्रमुपासते ।
न तस्य सिद्ध्यते मन्त्रः कल्पकोटिशतैरपि ॥ १४ ॥

इति श्री ईश्वरपार्वतिसंवादे बगलावर्णकवचं सम्पूर्णम् ।


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed