Sri Chandra Stotram 1 – श्री चन्द्र स्तोत्रम् 1


नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे ।
विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥ १ ॥

त्वमेव सर्वलोकानामाप्यायनकरः सदा ।
क्षीरोद्भवाय देवाय नमः शङ्करशेखर ॥ २ ॥

युगानां युगकर्ता त्वं निशानाथो निशाकरः ।
संवत्सराणां मासानामृतूनां तु तथैव च ॥ ३ ॥

ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः ।
ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥ ४ ॥

इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः ।
दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥ ५ ॥

न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ।
अहोरात्रकृतं पापं पठनादेव नश्यति ॥ ६ ॥

द्विजराजो महापुण्यस्तारापतिर्विशेषतः ।
ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥ ७ ॥

इति चन्द्र स्तोत्रम् ।


इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed