Sri Chandika Stotram – श्री चण्डिका स्तोत्रम्


या देवी खड्गहस्ता सकलजनपदव्यापिनी विश्वदुर्गा
श्यामाङ्गी शुक्लपाशा द्विजगणगणिता ब्रह्मदेहार्धवासा ।
ज्ञानानां साधयित्री यतिगिरिगमनज्ञान दिव्य प्रबोधा
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ १ ॥

ह्रां ह्रीं ह्रूं चर्ममुण्डे शवगमनहते भीषणे भीमवक्त्रे
क्रां क्रीं क्रूं क्रोधमूर्तिर्विकृतकुचमुखे रौद्रदंष्ट्राकराले ।
कं कं कं कालधारि भ्रमसि जगदिदं भक्षयन्ती ग्रसन्ती
हुङ्कारं चोच्चरन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ २ ॥

ह्रां ह्रीं ह्रूं रुद्ररूपे त्रिभुवननमिते पाशहस्ते त्रिनेत्रे
रां रीं रूं रङ्गरङ्गे किलिकिलितरवे शूलहस्ते प्रचण्डे ।
लां लीं लूं लम्बजिह्वे हसति कहकहाशुद्ध घोराट्‍टहासे
कङ्काली कालरात्रिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ३ ॥

घ्रां घ्रीं घ्रूं घोररूपे घघघघघटितैर्घुर्घुरारावघोरे
निर्मांसी शुष्कजङ्घे पिबतु नरवसा धूम्रधूम्रायमाने ।
द्रां द्रीं द्रूं द्रावयन्ती सकलभुवि तथा यक्षगन्धर्वनागान्
क्षां क्षीं क्षूं क्षोभयन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ४ ॥

भ्रां भ्रीं भ्रूं चण्डवर्गे हरिहरनमिते रुद्रमूर्तिश्च कीर्ति-
-श्चन्द्रादित्यौ च कर्णौ जडमुकुटशिरोवेष्टिता केतुमाला ।
स्रक् सर्वौ चोरगेन्द्रौ शशिकिरणनिभा तारकाहारकण्ठा
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ५ ॥

खं खं खं खड्गहस्ते वरकनकनिभे सूर्यकान्ते स्वतेजो-
-विद्युज्ज्वालावलीनां नवनिशितमहाकृत्तिका दक्षिणेन ।
वामे हस्ते कपालं वरविमलसुरापूरितं धारयन्ती
सा देवी दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ६ ॥

ओं हुं हुं फट् कालरात्री रु रु सुरमथनी धूम्रमारी कुमारी
ह्रां ह्रीं ह्रूं हत्तिशोरौक्षपितुकिलिकिलाशब्द अट्‍टाट्‍टहासे ।
हाहाभूतप्रसूते किलिकिलितमुखा कीलयन्ती ग्रसन्ती
हुङ्कारं चोच्चरन्ती प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ७ ॥

भृङ्गी काली कपालीपरिजनसहिते चण्डि चामुण्डनित्या
रों रों रोङ्कारनित्ये शशिकरधवले कालकूटे दुरन्ते ।
हुं हुं हुङ्कारकारी सुरगणनमिते कालकारी विकारी
वश्ये त्रैलोक्यकारी प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ८ ॥

वन्दे दण्डप्रचण्डा डमरुरुणिमणिष्टोपटङ्कारघण्टै-
-र्नृत्यन्ती याट्‍टपातैरटपटविभवैर्निर्मला मन्त्रमाला ।
सुक्षौ कक्षौ वहन्ती खरखरितसखाचार्चिनी प्रेतमाला-
-मुच्चैस्तैश्चाट्‍टहासैर्घुरुघुरितरवा चण्डमुण्डा प्रचण्डा ॥ ९ ॥

त्वं ब्राह्मी त्वं च रौद्रा शवशिखिगमना त्वं च देवी कुमारी
त्वं चक्री चक्रहस्ता घुरुघुरितरवा त्वं वराहस्वरूपा ।
रौद्रे त्वं चर्ममुण्डा सकलभुवि परे संस्थिते स्वर्गमार्गे
पाताले शैलशृङ्गे हरिहरनमिते देवि चण्डे नमस्ते ॥ १० ॥

रक्ष त्वं मुण्डधारी गिरिवरविहरे निर्झरे पर्वते वा
सङ्ग्रामे शत्रुमध्ये विश विश भविके सङ्कटे कुत्सिते वा ।
व्याघ्रे चौरे च सर्पेऽप्युदधिभुवि तथा वह्निमध्ये च दुर्गे
रक्षेत्सा दिव्यमूर्तिः प्रदहतु दुरितं चण्डमुण्डा प्रचण्डा ॥ ११ ॥

इत्येवं बीजमन्त्रैः स्तवनमतिशिवं पातकव्याधिनाशं
प्रत्यक्षं दिव्यरूपं ग्रहगणमथनं मर्दनं शाकिनीनाम् ।
इत्येवं वेगवेगं सकलभयहरं मन्त्रशक्तिश्च नित्यं
मन्त्राणां स्तोत्रकं यः पठति स लभते प्रार्थितां मन्त्रसिद्धिम् ॥ १२ ॥

इति श्रीमार्कण्डेय विरचितं चण्डिका स्तोत्रम् ।


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed