Sri Bhuvaneshwari Hrudayam – श्री भुवनेश्वरी हृदयम्


श्रीदेव्युवाच ।
भगवन् ब्रूहि तत् स्तोत्रं सर्वकामप्रसाधनं ।
यस्य श्रवणमात्रेण नान्यच्छ्रोतव्यमिष्यते ॥ १ ॥

यदि मेऽनुग्रहः कार्यः प्रीतिश्चापि ममोपरि ।
तदिदं कथय ब्रह्मन् विमलं यन्महीतले ॥ २ ॥

ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि सर्वकामप्रसाधनं ।
हृदयं भुवनेश्वर्याः स्तोत्रमस्ति यशोदयम् ॥ ३ ॥

ओं अस्य श्रीभुवनेश्ववरीहृदयस्तोत्रमन्त्रस्य शक्तिः ऋषिः – गायत्री छन्दः – श्रीभुवनेश्वरी देवता – हकारो बीजं – ईकारश्शक्तिः – रेफः कीलकं – सकल मनोवाञ्छितसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः ॥

ओं ह्रीं अङ्गुष्ठाभ्यां नमः ।
ओं श्रीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्रीं अनामिकाभ्यां नमः ।
ओं श्रीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ॥

ओं ह्रीं हृदयाय नमः ।
ओं श्रीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्रीं कवचाय हुं ।
ओं श्रीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।

ध्यानम् ॥

ध्यायेद्ब्रह्मादिकानां कृतजनिजननीं योगिनीं योगयोनिं
देवानां जीवनायोज्ज्वलितजयपरज्योतिरुग्राङ्गधात्रीं ।
शङ्खं चक्रं च बाणं धनुरपि दधतीं दोश्चतुष्काम्बुजातौ
मायामाद्यां विशिष्टां भव भव भुवनां भूभवा भारभूमिम् ॥ ४ ॥

यदाज्ञया यो जगदाद्यशेषं
सृजत्यजः श्रीपतिरौरसं वा ।
बिभर्ति संहन्ति भवस्तदन्ते
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ५ ॥

जगज्जनानन्दकरीं जयाख्यां
यशस्विनीं यन्त्रसुयज्ञयोनिम् ।
जितामितामित्रकृतप्रपञ्चां
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ६ ॥

हरौ प्रसुप्ते भुवनत्रयान्ते-
प्यनारतन्नाभिजपद्मजन्मा ।
विधिस्ततोऽन्धे विदधार यत्पदं
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ७ ॥

न विद्यते क्वापि तु जन्म यस्या
न वा स्थितिः सान्ततिकीह यस्याः ।
न वा निरोधेऽखिलकर्म यस्या
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ८ ॥

कटाक्षमोक्षाचरणोग्रवित्ता
निवेशितार्णा करुणार्द्रचित्ता ।
सुभक्तयेराति समीप्सितं या
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ९ ॥

यतो जगज्जन्म बभूव योने-
स्तदेव मध्ये प्रतिपाति यां वा ।
तदत्ति यान्तेऽखिलमुग्रकालि
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १० ॥

सुषुप्तिकाले जनमध्ययन्त्या
यया जनः स्वप्नमवैति किञ्चित् ।
प्रबुध्यते जाग्रति जीव एष
भजामहे श्रीभुवनेश्वरीं ताम् ॥ ११ ॥

दयास्फुरत्कोरकटाक्षलाभा-
न्नकेत्र यस्याः प्रभवन्ति सिद्धाः ।
कवित्वमीशित्वमपि स्वतन्त्रा
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १२ ॥

लसन्मुखाम्भोरुहमुत्स्फुरन्तं
हृदि प्रणिध्याय दिशि स्फुरन्तः ।
यस्याः कृपार्द्रं प्रविकासयन्ति
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १३ ॥

यदानुरागानुगतालिचित्रा-
श्चिरन्तनप्रेमपरिप्लुताङ्गाः ।
सुनिर्भयास्सन्ति प्रमुद्य यस्याः
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १४ ॥

हरिर्विरञ्चिर्हर ईशितारः
पुरोऽवतिष्ठन्ति परंनताङ्गाः ।
यस्यास्समिच्छन्ति सदानुकूल्यं
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १५ ॥

मनुं यदीयं हरमग्निसंस्थं
ततश्च वामश्रुतिचन्द्रसक्तम् ।
जपन्ति ये स्युस्सुरवन्दितास्ते
भजामहे श्रीभुवनेश्वरीं ताम् ॥ १६ ॥

प्रसीदतु प्रेमरसार्द्रचित्ता
सदा हि सा श्रीभुवनेश्वरी मे ।
कृपाकटाक्षेण कुबेरकल्पा
भवन्ति यस्याः पदभक्तिभाजः ॥ १७ ॥

मुदा सुपाठ्यं भुवनेश्वरीयं
सदा सतां स्तोत्रमिदं सुसेव्यम् ।
सुखप्रदं स्यात्कलिकल्मषघ्नं
सुशृण्वतां सम्पठतां प्रशस्यम् ॥ १८ ॥

एतत्तु हृदयं स्तोत्रं पठेद्यस्तु समाहितः ।
भवेत्तस्येष्टदा देवी प्रसन्ना भुवनेश्वरी ॥ १९ ॥

ददाति धनमायुष्यं पुण्यं पुण्यमतिं तथा ।
नैष्ठिकीं देवभक्तिं च गुरुभक्तिं विशेषतः ॥ २० ॥

पूर्णिमायां चतुर्दश्यां कुजवारे विशेषतः ।
पठनीयमिदं स्तोत्रं देवसद्मनि यत्नतः ॥ २१ ॥

यत्रकुत्रापि पाठेन स्तोत्रस्यास्य फलं भवेत् ।
सर्वस्थानेषु देवेश्याः पूतदेहः सदा पठेत् ॥ २२ ॥

इति नीलसरस्वतीतन्त्रे श्री भुवनेश्वरीपटले श्रीदेवीश्वरसंवादे
श्रीभुवनेश्वरी हृदयस्तोत्रं सम्पूर्णम् ॥


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed