Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥
पञ्चमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मिः द्वादशं लोकसुन्दरी ॥ ३ ॥
श्रीः पद्म कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ।
मा क्षीराब्धि सुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादशा ।
प्रातः शुद्धतराः पठन्ति सततं सर्वान् लभन्ते शुभान् ॥ ५ ॥
भद्रलक्ष्मी स्तवं नित्यं पुण्यमेतच्छुभावहम् ।
काले स्नात्वापि कावेर्यां जप श्रीवृक्षसन्निधौ ॥ ६ ॥
इति श्री भद्रलक्ष्मी स्तवम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
Report mistakes and corrections in Stotranidhi content.
Facebook Comments