Sri Balakrishna Ashtakam 2 – श्री बालकृष्णाष्टकम् २


श्रीमन्नन्दयशोदाहृदयस्थितभावतत्परो भगवान् ।
पुत्रीकृतनिजरूपः स जयति पुरतः कृपालुर्बालकृष्णः ॥ १ ॥

कथमपि रिङ्गणमकरोदङ्गणगतजानुघर्षणोद्युक्तः ।
कटितटकिङ्किणिजालस्वनशङ्कितमानसः सदा ह्यास्ते ॥ २ ॥

विकसितपङ्कजनयनः प्रकटितहर्षः सदैव धूसराङ्गः ।
परिगच्छति कटिभङ्गप्रसरीकृतपाणियुग्माभ्याम् ॥ ३ ॥

उपलक्षितदधिभाण्डः स्फुरितब्रह्माण्डविग्रहो भुङ्क्ते ।
मुष्टीकृतनवनीतः परमपुनीतो मुग्धभावात्मा ॥ ४ ॥

नम्रीकृतविधुवदनः प्रकटीकृतचौर्यगोपनायासः ।
स्वाम्बोत्सङ्गविलासः क्षुधितः सम्प्रति दृश्यते स्तनार्थी ॥ ५ ॥

सिंहनखाकृतिभूषणभूषितहृदयः सुशोभते नित्यम् ।
कुण्डलमण्डितगण्डः साञ्जननयनो निरञ्जनः शेते ॥ ६ ॥

कार्यासक्तयशोदागृहकर्मावरोधकः सदास्ते ।
तस्याः स्वान्तनिविष्टप्रणयप्रभाजनो यतोऽयम् ॥ ७ ॥

इत्थं व्रजपतितरुणी नमनीयं ब्रह्मरुद्राद्यैः ।
कमनीयं निजसूनुं लालयति स्म प्रत्यहं प्रीत्या ॥ ८ ॥

श्रीमद्वल्लभकृपया विशदीकृतमेतदष्टकं पठेद्यः ।
तस्य दयानिधिकृष्णो भक्तिः प्रेमैकलक्षणा शीघ्रम् ॥ ९ ॥

इति श्रीकृष्णदास कृतं श्री बालकृष्णाष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed