Sri Bala Stotram – श्री बाला स्तोत्रम् १


स्फटिकरजतवर्णं मौक्तिकामाल्यभूषं
अमृतकलश विद्याज्ञान मुद्राः कराग्रैः ।
दधतमृषभकक्ष्यं चन्द्रचूडं त्रिनेत्रं
विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ १ ॥

ऐङ्कारैक समस्तशत्रुरचनामावेद्य मूर्तिप्रदां
ऐश्वर्यादिकमष्टभोगफलदां ऐश्वर्यदां पुष्पिणीम् ।
ऐन्द्रव्याकरणादि शास्त्रवरदां ऐरावताराधितां
ऐशानीं भुवनत्रयस्य जननीमैङ्कारिणीमाश्रये ॥ २ ॥

क्लीङ्कारैकसमस्तवश्यकरिणीं क्लीं पञ्चबाणात्मिकां
क्लीं विद्रावणकारिणीं वरशिवां क्लिन्नां शिवालिङ्गिताम् ।
क्लीबोऽपि प्रणमन्भवानि भवतीं ध्यात्वा हृदम्भोरुहे
क्लिन्नाशेषवशीकरो भवति यत्क्लीङ्कारिणीं नौम्यहम् ॥ ३ ॥

सौः शब्द प्रथितामरादिविनुतां सूक्तिप्रकाशप्रदां
सौभाग्याम्बुधिमन्थनामृतरसां सौन्दर्य सम्पत्करीम् ।
सान्निध्यं दधतीं सदा प्रणमतां साम्राज्य लक्ष्मीप्रदां
सौः काराङ्कित पादपङ्कजयुगां सौषुम्नगां नौम्यहम् ॥ ४ ॥

इति श्री बाला स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed