Sri Bagalamukhi Hrudayam – श्री बगलामुखी हृदय स्तोत्रम्



अस्य श्रीबगलामुखी हृदयस्तोत्रस्य नारद ऋषिः अनुष्टुप् छन्दः श्रीबगलामुखी देवता ह्लीं बीजं क्लीं शक्तिः ऐं कीलकं श्रीबगलामुखी प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ऋष्यादिन्यासः –
ओं नारदऋषये नमः शिरसि ।
ओं अनुष्टुप् छन्दसे नमः मुखे ।
ओं श्रीबगलामुखी देवतायै नमः हृदये ।
ओं ह्लीं बीजाय नमः गुह्ये ।
ओं क्लीं शक्तये नमः पादयोः ।
ओं ऐं कीलकाय नमः सर्वाङ्गे ।

करन्यासः –
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्लीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्लीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्लीं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ओं ह्लीं क्लीं ऐं इति दिग्बन्धः ॥

ध्यानम् –
पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् ।
पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥

(इति ध्यात्वा सम्पूज्य च)

प्रार्थना –
पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते ।
बगले मे वरं देहि शत्रुसङ्घविदारिणि ॥

(इति सम्प्रार्थ्य)

मनुः –
ओं ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ॥

(इति मन्त्रं जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासं कृत्वा स्तोत्रं पठेत् तद्यथा)

करन्यासः –
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्लीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्लीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्लीं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ओं ह्लीं क्लीं ऐं इति दिग्विमोकः ॥

हृदयस्तोत्रम् –
वन्देऽहं बगलां देवीं पीतभूषणभूषिताम् ।
तेजोरूपमयीं देवीं पीततेजःस्वरूपिणीम् ॥ १ ॥

गदाभ्रमणभिन्नाभ्रां भ्रुकुटीभीषणाननाम् ।
भीषयन्तीं भीमशत्रून् भजे भव्यस्य भक्तिदाम् ॥ २ ॥

पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनाम् ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ ३ ॥

पालयन्तीमनुपलं प्रसमीक्ष्याऽवनीतले ।
पीताचाररतां भक्तास्तां भवानीं भजाम्यहम् ॥ ४ ॥

पीतपद्मपदद्वन्द्वां चम्पकारण्यवासिनीम् ।
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ ५ ॥

लसच्चारुसिञ्जत्सुमञ्जीरपादां
चलत्स्वर्णकर्णावतंसाञ्चितास्याम् ।
वलत्पीतचन्द्राननां चन्द्रवन्द्यां
भजे पद्मजादीड्यसत्पादपद्माम् ॥ ६ ॥

सुपीताभयामालया पूतमन्त्रं
परं ते जपन्तो जयं सल्लभन्ते ।
रणे रागरोषाप्लुतानां रिपूणां
विवादे बलाद्वैरकृद्घातमातः ॥ ७ ॥

भरत्पीतभास्वत्प्रभाहस्कराभां
गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
गरीयो गुणागारगात्रां गुणाढ्यां
गणेशादिगम्यां श्रये निर्गुणाढ्याम् ॥ ८ ॥

जना ये जपन्त्युग्रबीजं जगत्सु
परं प्रत्यहं ते स्मरन्तः स्वरूपम् ।
भवेद्वादिनां वाङ्मुखस्तम्भ आद्ये
जयो जायते जल्पतामाशु तेषाम् ॥ ९ ॥

तव ध्याननिष्ठाप्रतिष्ठात्मप्रज्ञा-
-वतां पादपद्मार्चने प्रेमयुक्ताः ।
प्रसन्ना नृपाः प्राकृताः पण्डिता वा
पुराणादिका दासतुल्या भवन्ति ॥ १० ॥

नमामस्ते मातः कनककमनीयाङ्घ्रिजलजं
बलद्विद्युद्वर्णां घनतिमिरविध्वंसकरणम् ।
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणं
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥ ११ ॥

ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दु प्रमुखैः ।
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदं
परं पीताकारं परिचितमणिद्वीपवसनम् ॥ १२ ॥

वदामस्ते मातः श्रुतिसुखकरं नाम ललितं
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ।
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने
भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥ १३ ॥

पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु
यथा ते प्रासन्न्यं प्रतिफलमपेक्ष्यं प्रणमताम् ।
अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो
दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥ १४ ॥

मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।
व्यवसितखलबुद्धिं नाशयाशु प्रगल्भां
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥ १५ ॥

व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था
करधृतगदया तान् घातयित्वाशु रोषात् ।
सघनवसनधान्यं सद्म तेषां प्रदह्य
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥ १६ ॥

करधृतरिपुजिह्वापीडनं व्यग्रहस्तां
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।
प्रणतसुरगणानां पालिकां पीतवस्त्रां
बहुबल बगलां तां पीतवस्त्रां नमामः ॥ १७ ॥

हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं
प्रकटित करुणार्द्रां प्रीणति जल्पतीति ।
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः
सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ॥ १८ ॥

तव चरणसरोजं सर्वदा सेव्यमानं
द्रुहिणहरिहराद्यैर्देवबृन्दैः शरण्यम् ।
मृदुलमपि शरं ते शर्मदं सूरिसेव्यं
वयमिह करवामो मातरेतद्विधेयम् ॥ १९ ॥

बगलाहृदयस्तोत्रमिदं भक्ति समन्वितः ।
पठेद्यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ २० ॥

पीताध्यानपरो भक्तो यः शृणोत्यविकल्पतः ।
निष्कल्मषो भवेन्मर्त्यो मृतो मोक्षमवाप्नुयात् ॥ २१ ॥

आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
यस्त्विदं पठते प्रेम्णा बगला प्रीतिमेति सः ॥ २२ ॥

देव्यालये पठन् मर्त्यो बगलां ध्यायतीश्वरीम् ।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥ २३ ॥

पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
बगलायाः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् ॥ २४ ॥

न किञ्चिद्दुर्लभं तस्य दृश्यते जगतीतले ।
शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥ २५ ॥

इति सिद्धेश्वरतन्त्रे उत्तरखण्डे श्रीबगलापटले श्री बगलामुखी हृदय स्तोत्रम् ॥


इतर श्री बगलामुखी स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed