Sri Bagalamukhi Hrudayam – श्री बगलामुखी हृदयं


ओं अस्य श्रीबगलामुखीहृदयमालामन्त्रस्य नारदऋषिः ।
अनुष्टुप्छन्दः । श्रीबगलामुखी देवता ।
ह्लीं बीजम् । क्लीं शक्तिः । ऐं कीलकम् ।
श्रीबगलामुखीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

अथ न्यासः ।
ओं नारदऋषये नमः शिरसि ।
ओं अनुष्टुप् छन्दसे नमः मुखे ।
ओं श्रीबगलामुखी देवतायै नमः हृदये ।
ओं ह्लीं बीजाय नमः गुह्ये ।
ओं क्लीं शक्तये नमः पादयोः ।
ओं ऐं कीलकाय नमः सर्वाङ्गे ।

करन्यासः ।
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्लीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ओं ह्लीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्लीं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्राय फट् ।
ओं ह्लीं क्लीं ऐं भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।
पीताम्बरां पीतमाल्यां पीताभरणभूषिताम् ।
पीतकञ्जपदद्वन्द्वां बगलां चिन्तयेऽनिशम् ॥

इति ध्यात्वा पञ्चमुद्रया सम्पूज्य ॥

पीतशङ्खगदाहस्ते पीतचन्दनचर्चिते ।
बगले मे वरं देहि शत्रुसङ्घविदारिणी ॥

सम्प्रार्थ्य ॥

ओं ह्लीं क्लीं ऐं बगलामुख्यै गदाधारिण्यै प्रेतासनाध्यासिन्यै स्वाहा ॥

इति मन्त्रं जपित्वा पुनः पूर्ववद्धृदयादि षडङ्गन्यासं कृत्वा
स्तोत्रं पठेत् ॥

करन्यासः ।
ओं ह्लीं अङ्गुष्ठाभ्यां नमः ।
ओं क्लीं तर्जनीभ्यां नमः ।
ओं ऐं मध्यमाभ्यां नमः ।
ओं ह्लीं अनामिकाभ्यां नमः ।
ओं क्लीं कनिष्ठिकाभ्यां नमः ।
ओं ऐं करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः ।
ओं ह्लीं हृदयाय नमः ।
ओं क्लीं शिरसे स्वाहा ।
ओं ऐं शिखायै वषट् ।
ओं ह्लीं कवचाय हुम् ।
ओं क्लीं नेत्रत्रयाय वौषट् ।
ओं ऐं अस्त्रायफट् ।
ओं ह्लीं क्लीं ऐं भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

वन्देऽहं बगलां देवीं पीतभूषणभूषिताम् ।
तेजोरूपमयीं देवीं पीततेजस्स्वरूपिणीम् ॥ १ ॥

गदाभ्रमणाभिन्नाभ्रां भ्रुकुटीभीषणाननां ।
भीषयन्तीं भीमशत्रून् भजे भक्तस्य भव्यदाम् ॥ २ ॥

पूर्णचन्द्रसमानास्यां पीतगन्धानुलेपनां ।
पीताम्बरपरीधानां पवित्रामाश्रयाम्यहम् ॥ ३ ॥

पालयन्तीमनुपलं प्रसमीक्ष्यावनीतले ।
पीताचाररतां भक्तां तां भवानीं भजाम्यहम् ॥ ४ ॥

पीतपद्मपदद्वन्द्वां चम्पकारण्यवासिनीं ।
पीतावतंसां परमां वन्दे पद्मजवन्दिताम् ॥ ५ ॥

लसच्चारुसिञ्जत्सुमञ्जीरपादां
चलत्स्वर्णकर्णावतंसाञ्चितास्यां ।
वलत्पीतचन्द्राननां चन्द्रवन्द्यां
भजे पद्मजादीड्यसत्पादपद्माम् ॥ ६ ॥

सुपीताभयामालया पूतमन्त्रं
परं ते जपन्तो जयं सल्लभन्ते ।
रणे रागरोषाप्लुतानां रिपूणां
विवादे बलाद्वैरकृद्धातमातः ॥ ७ ॥

भरत्पीतभास्वत्प्रभाहस्कराभां
गदागञ्जितामित्रगर्वां गरिष्ठाम् ।
गरीयो गुणागार गात्रां गुणाढ्यां
गणेशादिगम्यां श्रये निर्गुणाढ्याम् ॥ ८ ॥

जना ये जपन्त्युग्रबीजं जगत्सु
परं प्रत्यहं ते स्मरन्तः स्वरूपम् ।
भवेद्वादिनां वाङ्मुखस्तम्भ आद्ये
जयो जायते जल्पतामाशु तेषाम् ॥ ९ ॥

तव ध्याननिष्ठा प्रतिष्ठात्मप्रज्ञा-
वतां पादपद्मार्चने प्रेमयुक्ताः ।
प्रसन्ना नृपाः प्राकृताः पण्डिता वा
पुराणादिगाधासुतुल्या भवन्ति ॥ १० ॥

नमामस्ते मातः कनककमनीयाङ्घ्रि जलजं
बलद्विद्युद्वर्णां घनतिमिर विध्वंस करणम् ।
भवाब्धौ मग्नात्मोत्तरणकरणं सर्वशरणं
प्रपन्नानां मातर्जगति बगले दुःखदमनम् ॥ ११ ॥

ज्वलज्ज्योत्स्नारत्नाकरमणिविषक्ताङ्कभवनं
स्मरामस्ते धाम स्मरहरहरीन्द्रेन्दु प्रमुखैः ।
अहोरात्रं प्रातः प्रणयनवनीयं सुविशदं
परं पीताकारं परिचितमणिद्वीपवसनम् ॥ १२ ॥

वदामस्ते मातः श्रुतिसुखकरं नाम ललितं
लसन्मात्रावर्णं जगति बगलेति प्रचरितम् ।
चलन्तस्तिष्ठन्तो वयमुपविशन्तोऽपि शयने
भजामो यच्छ्रेयो दिवि दुरवलभ्यं दिविषदाम् ॥ १३ ॥

पदार्चायां प्रीतिः प्रतिदिनमपूर्वा प्रभवतु
यथा ते प्रासन्न्यं प्रतिफलमपेक्ष्यं प्रणमताम् ।
अनल्पं तन्मातर्भवति भृतभक्त्या भवतु नो
दिशातः सद्भक्तिं भुवि भगवतां भूरि भवदाम् ॥ १४ ॥

मम सकलरिपूणां वाङ्मुखे स्तम्भयाशु
भगवति रिपुजिह्वां कीलय प्रस्थतुल्याम् ।
व्यवसितखलबुद्धिं नाशयाशु प्रगल्भां
मम कुरु बहुकार्यं सत्कृपेऽम्ब प्रसीद ॥ १५ ॥

व्रजतु मम रिपूणां सद्मनि प्रेतसंस्था
करधृतगदया तान् घातयित्वाशु रोषात् ।
सधन वसन धान्यं सद्म तेषां प्रदह्य
पुनरपि बगला स्वस्थानमायातु शीघ्रम् ॥ १६ ॥

करधृतरिपु जिह्वापीडन व्यग्रहस्तां
पुनरपि गदया तांस्ताडयन्तीं सुतन्त्राम् ।
प्रणतसुरगणानां पालिकां पीतवस्त्रां
बहुबल बगलां तां पीतवस्त्रां नमामः ॥ १७ ॥

हृदयवचनकायैः कुर्वतां भक्तिपुञ्जं
प्रकटित करुणार्द्रां प्रीणतीजल्पतीति ।
धनमथ बहुधान्यं पुत्रपौत्रादिवृद्धिः
सकलमपि किमेभ्यो देयमेवं त्ववश्यम् ॥ १८ ॥

तव चरणसरोजं सर्वदा सेव्यमानं
द्रुहिणहरिहराद्यैर्देवबृन्दैः शरण्यम् ।
मृदुलमपि शरणं ते शर्मदं सूरिसेव्यं
वयमिह करवामो मातरेतद्विधेयम् ॥ १९ ॥

बगलाहृदयस्तोत्रमिदं भक्ति समन्वितः ।
पठेद्यो बगला तस्य प्रसन्ना पाठतो भवेत् ॥ २० ॥

पीताध्यानपरो भक्तो यः शृणोत्यविकल्पतः ।
निष्कल्मषो भवेन्मर्त्यो मृतो मोक्षमवाप्नुयात् ॥ २१ ॥

आश्विनस्य सिते पक्षे महाष्टम्यां दिवानिशम् ।
यस्त्विदं पठते प्रेम्णा बगला प्रीतिमेति सः ॥ २२ ॥

देव्यालये पठन् मर्त्यो बगलां ध्यायतीश्वरीम् ।
पीतवस्त्रावृतो यस्तु तस्य नश्यन्ति शत्रवः ॥ २३ ॥

पीताचाररतो नित्यं पीतभूषां विचिन्तयन् ।
बगलायाः पठेन्नित्यं हृदयस्तोत्रमुत्तमम् ॥ २४ ॥

न किञ्चिद् दुर्लभं तस्य दृश्यते जगतीतले ।
शत्रवो ग्लानिमायान्ति तस्य दर्शनमात्रतः ॥ २५ ॥

इति सिद्धेश्वरतन्त्रे उत्तरखण्डे श्री बगलापटले श्रीबगलाहृदयस्तोत्रम् ॥


इतर दशमहाविद्या स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed