Sri Apaduddharaka Hanumath Stotram – श्री आपदुद्धारक हनुमत् स्तोत्रम्
ओं अस्य श्री आपदुद्धारक हनुमत् स्तोत्र महामन्त्र कवचस्य, विभीषण ऋषिः, हनुमान् देवता, सर्वापदुद्धारक श्रीहनुमत्प्रसादेन मम सर्वापन्निवृत्त्यर्थे, सर्वाकार्यानुकूल्य सिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् ॥
वामे करे वैरिभीतं वहन्तं
शैलं परे शृङ्खलहारिटङ्कं ।
दधानमच्छच्छवियज्ञसूत्रं
भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ १ ॥
संवीतकौपीन मुदञ्चिताङ्गुलिं
समुज्ज्वलन्मौञ्जिमथोपवीतिनं
सकुण्डलं लम्बिशिखासमावृतं
तमाञ्जनेयं शरणं प्रपद्ये ॥ २ ॥
आपन्नाखिल लोकार्तिहारिणे श्रीहनूमते
अकस्मादागतोत्पात नाशनाय नमो नमः ॥ ३ ॥
सीतावियुक्तश्रीरामशोकदुःखभयापह
तापत्रितयसंहारिन् आञ्जनेय नमोऽस्तुते ॥ ४ ॥
आधिव्याधि महामारि ग्रहपीडापहारिणे
प्राणापहर्त्रेदैत्यानां रामप्राणात्मने नमः ॥ ५ ॥
संसारसागरावर्त कर्तव्यभ्रान्तचेतसाम्
शरणागतमर्त्यानां शरण्य़ाय नमोऽस्तुते ॥ ६ ॥
वज्रदेहाय कालाग्निरुद्रायामिततेजसे
ब्रह्मास्त्रस्तंभनायास्मै नमः श्रीरुद्रमूर्तये ॥ ७ ॥
रामेष्टं करुणापूर्णं हनूमन्तं भयापहम्
शत्रुनाशकरं भीमं सर्वाभीष्टप्रदायकम् ॥ ८ ॥
कारागृहे प्रयाणे वा सङ्ग्रामे शत्रुसङ्कटे
जले स्थले तथाकाशे वाहनेषु चतुष्पथे ॥ ९ ॥
गजसिंह महाव्याघ्र चोर भीषण कानने
ये स्मरन्ति हनूमन्तं तेषां नास्ति विपत् क्वचित् ॥ १० ॥
सर्ववानरमुख्यानां प्राणभूतात्मने नमः
शरण्य़ाय वरेण्याय वायुपुत्राय ते नमः ॥ ११ ॥
प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनासुतम्
अर्थसिद्धिं जयं कीर्तिं प्राप्नुवन्ति न सम्शयः ॥ १२ ॥
जप्त्वा स्तोत्रमिदं मन्त्रं प्रतिवारं पठेन्नरः
राजस्थाने सभास्थाने प्राप्ते वादे लभेज्जयम् ॥ १३ ॥
विभीषणकृतं स्तोत्रं यः पठेत् प्रयतो नरः
सर्वापद्भ्यः विमुच्येत नाऽत्र कार्या विचारणा ॥ १४ ॥
मन्त्रं :
मर्कटेश महोत्साह सर्वशोकनिवारक
शत्रून् संहर मां रक्ष श्रियं दापय भो हरे ॥ १५
इति विभीषणकृतं सर्वापदुद्धारक श्रीहनुमत् स्तोत्रम्