Skanda Veda Pada Stava – स्कन्द वेदपाद स्तवः



यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् ।
अग्रे स्थितः स विघ्नेशो ममान्तर्हृदये स्थितः ॥ १ ॥

महः पुरा वै बुधसैन्धवश्री-
-शराटवीमध्यगतं हृदन्तः ।
श्रीकण्ठफालेक्षणजातमीडे
तत्पुष्करस्यायतनाद्धि जातम् ॥ २ ॥

महो गुहाख्यं निगमान्तपङ्क्ति
मृग्याङ्घ्रिपङ्केरुहयुग्ममीडे ।
साम्बो वृषस्थः सुतदर्शनोत्को
यत्पर्यपश्यत्सरिरस्य मध्ये ॥ ३ ॥

त्वामेव देवं शिवफालनेत्र-
-महोविवर्तं परमात्मरूपम् ।
तिष्ठन् व्रजन् जाग्रदहं शयानः
प्राणेन वाचा मनसा बिभर्मि ॥ ४ ॥

नमो भवानीतनुजाय तेऽस्तु
विज्ञाततत्त्वा मुनयः पुराणाः ।
यमेव शम्भुं हरिमब्जयोनिं
यमिन्द्रमाहुर्वरुणं यमाहुः ॥ ५ ॥

कोटीरकोटिस्थमहार्घकोटि-
-मणिप्रभाजालवृतं गुहं त्वाम् ।
अनन्यचेताः प्रणवाब्जहंसं
वेदाहमेतं पुरुषं महान्तम् ॥ ६ ॥

स नोऽवतु स्वालिकपङ्क्तिजीव-
-ग्रहं गृहीतायत चन्द्रखण्डः ।
गुहादसीयन्तमिदं स्वरूपं
परात्परं यन्महतो महान्तम् ॥ ७ ॥

स्वर्गापगामध्यगपुण्डरीक-
-दलप्रभाजैत्रविलोचनस्य ।
अक्ष्णां सहस्रेण विलोक्यमानं
न सन्दृशे तिष्ठति रूपमस्य ॥ ८ ॥

हेमद्विषत्कुण्डलमण्डलाढ्य-
-गण्डस्थलीमण्डिततुण्डशोभः ।
ब्रह्म त्वमेवेति गुहो मुनीन्द्रैः
हृदा मनीषा मनसाऽभिक्लप्तः ॥ ९ ॥

सुपक्वबिम्बाधरकान्तिरक्त-
-सन्ध्यामृगाङ्कायितदन्तपङ्क्तिः ।
गुहस्य नः पातु विलोलदृष्टिः
येनावृतं खं च दिवं महीं च ॥ १० ॥

करीन्द्रशुण्डायितदोःप्रकाण्ड
द्विषट्ककेयूरविराजमानम् ।
गुहं मृडानीभवमप्रमेयं
न चक्षुषा पश्यति कश्चनैनम् ॥ ११ ॥

स्वकीयदोर्दण्डगृहीतचण्ड-
-कोदण्ड निर्मुक्त पृषत्कषण्डैः ।
त्रिविष्टपान्धङ्करणैरशून्यान्
यः सप्तलोकानकृणोद्दिशश्च ॥ १२ ॥

सौवर्णहारादिविभूषणोज्ज्वल-
-न्मणिप्रभालीढ विशालवक्षाः ।
स्कन्दः स मां पातु जिताब्जयोनिः
अजायमानो बहुधा विजायते ॥ १३ ॥

देवः स वैहारिकवेषधारी
लीलाकृताशेषजगद्विमर्दः ।
शिखिध्वजः पातु भयङ्करेभ्यो
यः सप्तसिन्धूनदधात्पृथिव्याम् ॥ १४ ॥

षडाननो द्वादशबाहुदण्डः
श्रुत्यन्तगामी द्विषडीक्षणाढ्यः ।
भीताय मह्यं गिरिजातनूजो
हिरण्यवर्णस्त्वभयं कृणोतु ॥ १५ ॥

यो दानवानीकभयङ्कराटवी
समूलकोत्पाटनचण्डवातः ।
षाण्मातुरः संहृत सर्वशत्रुः
अथैकराजो ह्यभवज्जनानाम् ॥ १६ ॥

अतीव बालः प्रवयाः कुमारो
वर्णी युवा षण्मुख एकवक्त्रः ।
इत्थं महस्तद्बहुधाऽऽविरासी-
-द्यदेकमव्यक्तमनन्तरूपम् ॥ १७ ॥

यदीयमायावरणाख्यशक्ति
तिरोहितान्तः करणा हि मूढाः ।
न जानते त्वां गुह तं प्रपद्ये
परेण नाकं निहितं गुहायाम् ॥ १८ ॥

गुरूपदेशाधिगतेन योग-
-मार्गेण सम्प्राप्य च योगिनस्त्वाम् ।
गुहं परं ब्रह्म हृदम्बुजस्थं
विभ्राजदेतद्यतयो विशन्ति ॥ १९ ॥

यो देवसेनापतिरादराद्वै
ब्रह्मादिभिर्देवगणैरभिष्टुतः ।
तं देवसेनान्यमहं प्रपद्ये
विश्वं पुराणं तमसः परस्तात् ॥ २० ॥

हृदम्बुजान्तर्दहराग्रवर्ति
कृशानुमध्यस्थपरात्मरूपात् ।
गुहात्सुसूक्ष्मान्मुनयः प्रतीयु-
-रतः परं नान्यदणीयसं हि ॥ २१ ॥

तपः प्रसन्नेशबहुप्रदत्त-
-वरप्रमत्तासुरभीतिभाजाम् ।
सुपर्वणां स्कन्द भवान् शरण्यः
इन्द्रस्य विष्णोर्वरुणस्य राज्ञः ॥ २२ ॥

स एव देवो गिरिजाकुमारो
राजा स मित्रं स हि नो वरेण्यः ।
भ्राता स बन्धुः स गुरुः स्वसा च
स एव पुत्रः स पिता च माता ॥ २३ ॥

स्वराज्यदात्रे स्वसुतां वितीर्य
तां देवसेनां सुकुमारगात्राम् ।
आराधयत्यन्वहमाम्बिकेयं
इन्द्रो हविष्मान्सगणो मरुद्भिः ॥ २४ ॥

देवेन येनालघुविक्रमेण
हतेषु सर्वेष्वपि दानवेषु ।
पुरेव देवाः स्वपदेऽधिचक्रुः
इन्द्रश्च सम्राड्वरुणश्च राजा ॥ २५ ॥

षाण्मातुरोऽसौ जगतां शरण्य-
-स्तेजोऽन्नमापः पवनश्च भूत्वा ।
संरक्षणायैव जगत्सु देवो
विवेश भूतानि चराचराणि ॥ २६ ॥

करौ युवामञ्जलिमेव नित्यं
उमाङ्गजाताय विधत्तमस्मै ।
एष प्रसन्नः सुकुमारमूर्ति-
-रस्मासु देवो द्रविणं दधातु ॥ २७ ॥

निधिः कलानामुदधिर्दयानां
पतिर्जनानां सरणिर्मुनीनाम् ।
कदा प्रसीदेन्मयि पार्वतेयः
पिता विराजामृषभो रयीणाम् ॥ २८ ॥

सौन्दर्यवल्लीतनुसौकुमार्य-
-सरोजपुष्पन्धयमानसो यः ।
चचार कान्तारपथेषु देवः
स नो ददातु द्रविणं सुवीर्यम् ॥ २९ ॥

इतोऽपि सौन्दर्यवदस्तु देह-
-मितीव हुत्वा शिवफालनेत्रे ।
जातस्ततः किं स कुमार एव
कामस्तदग्रे समवर्तताधि ॥ ३० ॥

मुमुक्षुलोकाः शृणुत प्रियं वो
भजध्वमेनं गिरिजाकुमारम् ।
अस्यैव देवस्य परात्मतेति
हृदि प्रतीष्या कवयो मनीषा ॥ ३१ ॥

धेनुर्बह्वीः कामदोग्ध्रीः सुवत्साः
कुण्डोध्नीर्गा देहि नस्त्वं सहस्रम् ।
भक्तार्तिघ्नं देवदेवं षडास्यं
विद्माहि त्वा गोपतिं शूरगोनाम् ॥ ३२ ॥

वन्दामहे बर्हिणवाहनस्थितं
वनीपकाशेषमनीषितप्रदम् ।
तोष्टूयमानं बहुधा पदे पदे
सङ्क्रन्दनेनानिमिषेण जिष्णुना ॥ ३३ ॥

दिग्भ्यो दशभ्यः परितः पुनः पुनः
परः शतायातसिषेविषावताम् ।
अनुग्रहायैव षडाननो ह्यसौ
प्रत्यङ्ग्मुखस्तिष्ठति विश्वतोमुखः ॥ ३४ ॥

कूर्मः फणीन्द्रश्च तथा फणाभृतो
दिग्दन्तिनश्चैव कुलाचला अपि ।
भूत्वाऽम्बिकेयः प्रथितः प्रतापवान्
ब्रह्माध्यतिष्ठद्भुवनानि धारयन् ॥ ३५ ॥

यो वै स्कन्दः पृष्टः शम्भोः सत्यं ज्ञानं ब्रह्माद्वैतम् ।
ओङ्कारार्थं प्राह स्मेत्थं सुब्रह्मण्यों सुब्रह्मण्योम् ॥ ३६ ॥

यो जाह्ववीशरारण्यह्रदाम्भोजे बभौ पुरा ।
तस्मै नमः षण्मुखाय महासेनाय धीमहि ॥ ३७ ॥

यद्दक्षिणकराम्भोजमिष्टदं स्वानुजीविनाम् ।
तेभ्य इन्द्रादिसेनानां सेनानिभ्यश्च वो नमः ॥ ३८ ॥

देवतानामृषीणां च भक्तानामपि योगिनाम् ।
भूतानामपि वीराणां पतीनां पतये नमः ॥ ३९ ॥

नमस्तेऽस्तु महेशान भीतेभ्यः शूरपद्मनः ।
सुनासीरमुखेभ्यस्त्वं स्वस्तिदा अभयङ्करः ॥ ४० ॥

कटाक्षवीक्षणापास्त निखिलव्याधिबन्धन ।
देवसेनापते स्वामिन् अभि त्वा शूर नूनुमः ॥ ४१ ॥

अन्तश्चरसि भूतेषु त्वमेकः सूक्ष्मरूपतः ।
त्वमेव निगमान्तेषु परमात्मा व्यवस्थितः ॥ ४२ ॥

मही द्यौरन्तरिक्षं च वायुरापोऽनलोऽम्बरम् ।
सुब्रह्मण्य जगन्नाथ त्वयि सर्वं प्रतिष्ठितम् ॥ ४३ ॥

शैशवे त्वं महासेन बन्दीकृत्य प्रजापतिम् ।
अस्राक्षीस्तान्यथापूर्वं मनुष्याः पशवश्च ये ॥ ४४ ॥

वेदान्तकन्दरीवर्ति गुहाशयषडानने ।
त्रिलोकीयं त्वयि विभो नावीवान्तः समाहिता ॥ ४५ ॥

कला मुहूर्ताः काष्ठाश्च मासा वर्षा युगानि च ।
त्वयि वल्लीश निहिता निमेषास्त्रुटिभिः सह ॥ ४६ ॥

रोगकान्तारदावाग्ने मृत्युकक्षहुताशन ।
शूरघ्न त्वत्प्रतापेन रेजती रोदसी उभे ॥ ४७ ॥

परं ब्रह्म विचिन्वन्तो हृदयाम्भोजमध्यगम् ।
योगिनो नारदाद्यास्त्वां सदा पश्यन्ति सूरयः ॥ ४८ ॥

हतशूरमुखाशेषदैतेयं त्वां गुहास्तुवन् ।
अग्नाविष्णू चेन्द्रवायू सोमो धाता बृहस्पतिः ॥ ४९ ॥

वाचालयस्यवाचं त्वं सचक्षुः कुरुषेऽदृशम् ।
आश्रितेभ्यो जगन्नाथ शिवो नः सुमना भव ॥ ५० ॥

स एव जगतः कर्ता भर्ता हर्ता जगद्गुरुः ।
कुमारः सच्चिदानन्दः सोऽक्षरः परमः स्वराट् ॥ ५१ ॥

असुरान् शूरपद्मादीन् हत्वा शरवणोद्भवः ।
देवान् स्वस्वपदे कृत्वा सम्राडेको विराजसि ॥ ५२ ॥

तव दृष्ट्वा विश्वरूपं सहर्षभयवेपथु ।
त्वामस्तुवन्नादितेयाः बृहस्पतिपुरोहिताः ॥ ५३ ॥

किन्नरा गरुडा नागा यक्षाः साध्या मरुद्गणाः ।
ऐन्द्रीशं त्वामहरहः विश्वे देवा उपासते ॥ ५४ ॥

विश्वासान्मानुषीणां च प्रजानां पशुपक्षिणाम् ।
चराचराणां जगतां ध्रुवो राजा विशामयम् ॥ ५५ ॥

अम्भोजसंवर्तिकासु राजहंसा इव प्रभो ।
मदीयहृदयाम्भोजे ध्रुवस्तिष्ठाविचाचलिः ॥ ५६ ॥

लीलामात्रकृताशेषभुवनाद्गिरिजासुतात् ।
अथर्व चाथ ऋक्साम यजुस्तस्मादजायत ॥ ५७ ॥

तिले तैलमिव प्रोतं दध्न्याज्यमिव षण्मुखे ।
मणौ सूत्रमिव स्यूतं ब्रह्म विश्वमिदं जगत् ॥ ५८ ॥

यस्तप्तादीनृषीन् शापादुद्दधार हरात्मजः ।
मातुः स्तनसुधापूरे पुत्रः प्रमुदितोधयन् ॥ ५९ ॥

इज्यया पूजया स्तुत्या भक्त्या च परिचर्यया ।
ध्यानेन तपसा च त्वां देवं मनसि ईडते ॥ ६० ॥

श्रुतिस्मृत्यागमाद्युक्तकर्मणां फलदायिने ।
स्कन्दाय तुभ्यं मखिभिः श्रद्धया हूयते हविः ॥ ६१ ॥

मूर्धा द्यौरम्बरं नाभिरूरू भूरतलं पदे ।
षण्मुखस्येत्येवमाहुः अन्तर्विश्वमिदं जगत् ॥ ६२ ॥

भक्तसन्तापशमन प्रावृषेण्यघनाघनात् ।
स्कन्दादन्यं मनो मागाः स दृष्टो मृडयाति नः ॥ ६३ ॥

जिह्वे त्वमुच्चैर्निस्तन्द्रा रात्रिन्दिवमभिष्टुहि ।
देवसेनं महासेनं अदुग्धा इव धेनवः ॥ ६४ ॥

अकलङ्कशरच्चन्द्रविलसत्त्वन्मुखस्रुताः ।
मन्दस्मितसुधाधारास्ता मे कृण्वन्तु भेषजम् ॥ ६५ ॥

देवानीजिमहे पूर्वं तपश्चकृमहे पुरा ।
यद्गुहो देवतास्माकं कविर्गृहपतिर्युवा ॥ ६६ ॥

मदीयहृदयाम्भोजनिर्यूहमणिमञ्चके ।
षडानन त्वत्पादः स्यादियान् प्रादेशसम्मितः ॥ ६७ ॥

चिरन्तनवचः स्तुत्यः प्रणवाम्बुजषट्पदः ।
करोतु देवसेनेशः शिवा नः प्रदिशो दिशः ॥ ६८ ॥

दैतेयवधसन्नद्धो भवान् पवनसारथिः ।
द्विलक्षमर्वतो हैमे रथे युक्त्वाऽधितिष्ठति ॥ ६९ ॥

गगनोच्छ्रितकोदण्डकिरीटं शूरमाहवे ।
बिभेदिथ त्वं नाराचैः सहस्रेण शतेन च ॥ ७० ॥

ऐशाल्ललाटनयनात् जातं वह्निर्यथाऽरणेः ।
मुमुक्षवो गुहं ब्रह्म विचिन्वन्तु मनीषया ॥ ७१ ॥

हिरण्यज्योतिषं स्कन्दं याचध्वं भो वनीपकाः ।
एषोऽर्थिनः पूरयति प्रजया च धनेन च ॥ ७२ ॥

सन्निधास्यति किं स्वामी भवनाम्बुरुहेक्षणः ।
तावकं मञ्जुलं रूपं स्मर्यते न च दृश्यते ॥ ७३ ॥

यतस्त्वं जगतामेषां आशिषे शिखिवाहन ।
ततो देहि बहून्व्रीहीनकृष्टा ये च कृष्टजाः ॥ ७४ ॥

धनधान्यगृहान् पुत्रान् देहि देव दयानिधे ।
त्वमाश्रितेष्टद इति कर्णाभ्यां भूरि विश्रुतम् ॥ ७५ ॥

भक्तेभ्यो मुचुकुन्दाख्यप्रमुखेभ्यो यथा गुह ।
प्रादास्तथा देहि मह्यमच्युतां बहुलां श्रियम् ॥ ७६ ॥

भक्तान् तत्पुत्रसुहृदः तन्मातृपितृसोदरान् ।
पाहि स्कन्द पुनश्चास्य द्विपदो ये चतुष्पदः ॥ ७७ ॥

चोरव्याघ्रपिशाचाखुसर्पकीटादिबाधकात् ।
भक्तान्निशासु संरक्षन् त्रिषु लोकेषु जागृहि ॥ ७८ ॥

दानवेष्वपि दैत्येषु राक्षसेष्वप्यरातिषु ।
पिशाचेष्वपि गाङ्गेय विक्रमस्व महानसि ॥ ७९ ॥

आधिभिर्व्याधिभिश्चैव पीडितानामहर्निशम् ।
दूतानां वपुषि स्वामिन्नासुवोर्जमिषं च नः ॥ ८० ॥

अतितीव्रेण तपसा तप्यमाना अहर्निशम् ।
उपासत त्वां तप्ताद्याः अथ हैनं पुरर्षयः ॥ ८१ ॥

ध्यानावाहनपूजेज्यापरिचर्यास्तुतिष्वहम् ।
अज्ञो मे सफलां पूजां कृणुहि ब्रह्मणस्पते ॥ ८२ ॥

असुरान् राक्षसान् क्रूरान् देवयज्ञविघातकान् ।
जहि देवेश यस्मात्त्वं रक्षोहामीवचातनः ॥ ८३ ॥

दुर्वृत्तेभ्यो धनं धत्से नीचेभ्योऽपि धनं बहु ।
न ददासि कुतो मह्यं एतत्पृच्छामि सम्प्रति ॥ ८४ ॥

मुखैरेतान्महारौद्रान् दूरीकुरु जगत्पते ।
मम स्वमभिकाङ्क्षन्ते ये स्तेना ये च तस्कराः ॥ ८५ ॥

गुह त्वत्पादभक्तानां गेहे जाग्रत्वहर्दिवम् ।
वीरबाहुमुखा वीर ते नित्यानुचरास्तव ॥ ८६ ॥

त्रिषड्विलोचनेष्वेकदृक्कटाक्षेण लक्षयन् ।
आढ्यं करोतु मां स्कन्दः पर्जन्यो वृष्टिमानिव ॥ ८७ ॥

भयानकासुरानीककान्दिशीकाः पुरा खलु ।
गुह त्वां शरणं प्रापुः इन्द्रेण सह देवताः ॥ ८८ ॥

त्वामेव कीर्तयन् देव ध्यायन् शृण्वन् प्रपूजयन् ।
गुह त्वत्पादभक्तोऽहं जीवानि शरदः शतम् ॥ ८९ ॥

कृपादुग्धाब्धिकल्लोलायमानापाङ्गवीक्षण ।
देहि मे गुह बह्वायुर्दीर्घायुस्त्वमिहेशिषे ॥ ९० ॥

पुरारातीक्षणपयः पारावारसुधाकर ।
षड्वक्त्र धेहि कृपया मयि मेधां मयि प्रजाम् ॥ ९१ ॥

भक्तचातकबृन्देष्टवर्षिधाराधर प्रभो ।
अस्मान् सञ्जीवय स्वामिनस्मिन् लोके शतं समाः ॥ ९२ ॥

भीता वयं महासेन पथि दुर्गे वने यतः ।
चोरव्याघ्रपिशाचेभ्यः ततो नो अभयं कृधि ॥ ९३ ॥

व्याधयः शूलकुष्ठार्शः प्रमेहाद्या यतः सदा ।
पीडयन्ति पिशाचाद्याः ततो नो धेहि भेषजम् ॥ ९४ ॥

त्वदीयपादकमलध्यानवर्मितविग्रहान् ।
कुहका मोहकाः क्षुद्राः माऽस्मान्प्रापन्नरातयः ॥ ९५ ॥

धनधान्यपशुक्षेत्रबलेष्वस्मदपेक्षया ।
देवसेनापतेऽस्माकं अधरे सन्तु शत्रवः ॥ ९६ ॥

अरातिकुलनिर्मूलनालङ्कर्मीणविक्रम ।
अकारणेन बहुधा यो नो द्वेष्टि स रिष्यतु ॥ ९७ ॥

मन्त्रैर्यन्त्रैस्तथा तन्त्रैरौषधैरायुधैरपि ।
जिघांसति च योऽस्मान् स द्विषन्मे बहु शोचतु ॥ ९८ ॥

आखण्डलारीनसुरान् त्वं तु स्पर्धावतो यथा ।
जहि गाङ्गेय तौ मर्त्यौ यं चाहं द्वेष्टि यश्च माम् ॥ ९९ ॥

त्वन्नामकीर्तनपरक्षेमङ्करकराम्बुज ।
तमिमं संहर स्वामिन् यश्च नो द्वेषते जनः ॥ १०० ॥

दूरेऽन्तिके वा यः शत्रुः अस्माननपराधिनः ।
शपत्येनं जहि स्कन्द यश्च नः शपतः शपात् ॥ १०१ ॥

चक्षुषा मनसा वाचा मन्त्रेण हवनेन च ।
तत्कृत्यां नाशय स्वामिन् भ्रातृव्यस्याभिदासतः ॥ १०२ ॥

मच्छिद्रान्वेषिणः शत्रोः धनमायुः प्रजाः पशून् ।
सर्वान्नाशय शूरघ्न मा तस्योच्छेषि किञ्चन ॥ १०३ ॥

अविद्वांसश्च विद्वांसः स्वप्ने जाग्रति वा गुह ।
तेभ्यो मोचय मां यद्यदेनांसि चकृमा वयम् ॥ १०४ ॥

वयमूचिम यद्देव जिह्वया देवहेलनम् ।
एनसो मोचयाग्नेय त्वं हि वेत्थ यथातथम् ॥ १०५ ॥

वित्तार्थं वा तथाऽन्यार्थं विप्रार्थं गोऽर्थमेव वा ।
पुनीह्यस्मांस्ततः स्कन्द यत्किञ्चानृतमूदिम ॥ १०६ ॥

तमागसं क्षमस्व त्वं स्वकीयाभीष्टलिप्सया ।
सम्प्रार्थ्य तुभ्यं वाऽन्यस्मै यद्वाचाऽनृतमूदिम ॥ १०७ ॥

सौन्दर्यवल्ल्या सहितं अम्बया देवसेनया ।
महासेनं भजे देवं सत्येन तपसा सह ॥ १०८ ॥

यो वै पठेद्गुहस्यैनं वेदान्तस्तवमादरात् ।
स्कान्दाः कटाक्षास्तस्योच्चैरायुः कीर्तिं प्रजां ददुः ॥ १०९ ॥

स्कन्दस्यैनं वेदपादस्तवं यो
भक्त्या नित्यं श्रावयेद्वा पठेद्वा ।
भूयासुस्ते तस्य मर्त्यस्य शीघ्रं
ये ये कामा दुर्लभा मर्त्यलोके ॥ ११० ॥

इति स्कन्दवेदपादस्तवः ।


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed