Sri Subrahmanya, Valli, Devasena Kalyana Pravara – श्री सुब्रह्मण्य, वल्ली, देवसेना कल्याण प्रवर


श्री सुब्रह्मण्येश्वर गोत्रप्रवर –
चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु । निर्गुण निरञ्जन निर्विकल्प परशिव गोत्रस्य । परशिव शर्मणो नप्त्रे । सदाशिव शर्मणः पौत्राय । विश्वेश्वर शर्मणः पुत्राय । अखिलाण्डकोटिब्रह्माण्डनायकाय । त्रिभुवनाधीश्वराय । तत्त्वातीताय । आर्तत्राणपरायणाय । श्रीसुब्रह्मण्येश्वराय वराय ॥

श्री वल्लीदेवि गोत्रप्रवर –
चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु । काश्यप आवत्सार नैधृव त्रयार्षेय प्रवरान्वित काश्यपस गोत्रस्य । जरत्कार शर्मणो नप्त्रीम् । आस्तीक शर्मणः पौत्रीम् ।
शङ्खपाल शर्मणः पुत्रीम् । सकलसद्गुणसम्पन्नां श्रीवल्ली नाम्नीं कन्याम् ॥

[* पाठन्तरं – परावरण चिदानन्द पराकाश परवासुदेव गोत्रस्य । विश्वम्भर शर्मणो नप्त्रीम् । परब्रह्म शर्मणः पौत्रीम् । कश्यप शर्मणः पुत्रीम् । *]

श्री देवसेनादेवि गोत्रप्रवर –
चतुस्सागर पर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु । भार्गव च्यावन आप्नवान और्व जामदग्न्य पञ्चार्षेय प्रवरान्वित श्रीवत्सस गोत्रस्य । यूधप शर्मणो नप्त्रीम् । माधव शर्मणः पौत्रीम् । इन्द्र शर्मणः पुत्रीम् । सकलसद्गुणसम्पन्नां श्रीदेवसेना नाम्नीं कन्याम् ॥


इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed