Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीशक्तिशिवावूचतुः ।
नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १ ॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २ ॥
वरदाभयहस्ताय नमः परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३ ॥
अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४ ॥
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः ॥ ५ ॥
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६ ॥
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७ ॥
किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नप ।
तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः ॥ ८ ॥
तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९ ॥
भविष्यति च सौख्यस्य पठते शृण्वते प्रदम् ।
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ।
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥ १० ॥
इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं सम्पूर्णम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.