Sarva Devata Kruta Lalitha Stotram – श्री ललिता स्तोत्रम् (सर्व देवत कृतम्)


प्रादुर्बभूव परमं तेजः पुञ्जमनूपमम् ।
कोटिसूर्यप्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ १ ॥

तन्मध्यमे समुदभूच्चक्राकारमनुत्तमम् ।
तन्मध्यमे महादेविमुदयार्कसमप्रभाम् ॥ २ ॥

जगदुज्जीवनाकारां ब्रह्मविष्णुशिवात्मिकाम् ।
सौन्दर्यसारसीमान्तामानन्दरससागराम् ॥ ३ ॥

जपाकुसुमसङ्काशां दाडिमीकुसुमाम्बराम् ।
सर्वाभरणसम्युक्तां शृङ्गारैकरसालयाम् ॥ ४ ॥

कृपातारङ्गितापाङ्ग नयनालोक कौमुदीम् ।
पाशाङ्कुशेक्षुकोदण्ड पञ्चबाणलसत्कराम् ॥ ५ ॥

तां विलोक्य महादेवीं देवाः सर्वे स वासवाः ।
प्रणेमुर्मुदितात्मानो भूयो भूयोऽखिलात्मिकाम् ॥ ६ ॥

॥ इति श्री ललिता स्तोत्रम् ॥


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed