Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
विश्वरूपिणि सर्वात्मे विश्वभूतैकनायकि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ १ ॥
आनन्दरूपिणि परे जगदानन्ददायिनि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ २ ॥
ज्ञातृज्ञानज्ञेयरूपे महाज्ञानप्रकाशिनि ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ३ ॥
लोकसंहाररसिके कालिके भद्रकालिके ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ४ ॥
लोकसन्त्राणरसिके मङ्गले सर्वमङ्गले ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ५ ॥
विश्वसृष्टिपराधीने विश्वनाथे विशङ्कटे ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ६ ॥
संविद्वह्नि हुताशेष सृष्टिसम्पादिताकृते ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ७ ॥
भण्डाद्यैस्तारकाद्यैश्च पीडितानां सतां मुदे ।
ललिता परमेशानि संविद्वह्नेः समुद्भव ॥ ८ ॥
इति श्री ललिता अष्टकारिका स्तोत्रम् ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.