Sami Vruksha Prarthana – शमी प्रार्थना


(दशम्यां सायाह्नॆ शमीपूजां कृत्वा-तदनंतरं ध्यायॆत्)

शमी शमय तॆ पापं शमी शत्रु विनाशिनी ।
अर्जुनस्य धनुर्धारी रामस्य प्रियदर्शिनि ॥ १ ॥

शमीं कमलपत्राक्षीं शमीं कंटकधारिणीम् ।
आरॊहतु शमीं लक्ष्मीं नृणामायुष्यवर्धनीम् ॥ २ ॥

नमॊ विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणॆ ।
त्वत्तः पत्रं प्रतीक्ष्यामि सदा मॆ विजयी भव ॥ ३ ॥

धर्मात्मा सत्यसंधश्च रामॊ दाशरथिर्यदि ।
पौरुषॆ चाऽप्रतिद्वंद्वश्चरैनं जहिरावणिम् ॥ ४ ॥

अमंगळानां प्रशमीं दुष्कृतस्य च नाशिनीम् ।
दुःस्वप्नहारिणीं धन्यां प्रपद्यॆऽहं शमीं शुभाम् ॥ ५ ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed