Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं प्रकाशम् ।
अशरणशरणं शरण्यमीशं हरिमजमच्युतमीश्वरं प्रपद्ये ॥ १ ॥
कुवलयदलनीलसंनिकाशं शरदमलाम्बरकोटरोपमानम् ।
भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये ॥ २ ॥
विमलमलिकलापकोमलाङ्गं सितजलपङ्कजकुड्मलाभशङ्खम्
श्रुतिरणितविरञ्चिचञ्चरीकं स्वहृदयपद्मदलाश्रयं प्रपद्ये ॥ ३ ॥
सितनखगणतारकाविकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम्
हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरमाततं प्रपद्ये ॥ ४ ॥
अविरलकृतसृष्टिसर्वलीनं सततमजातमवर्थनं विशालम्
गुणशतजरठाभिजातदेहं तरुदलशायिन मर्भकं प्रपद्ये ॥ ५ ॥
नवविकसितपद्मरेणुगौरं स्फुटकमलावपुषा विभूषिताङ्गम्
दिनशमसमयारुणाङ्गरागं कनकनिभाम्बरसुन्दरं प्रपद्ये ॥ ६ ॥
दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम्
कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये ॥ ७ ॥
त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपमग्र्यम्
स्फुटतरमजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये ॥ ८ ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.