Maya panchakam – माया पञ्चकम्


निरुपमनित्यनिरंशकेऽप्यखण्डे ।
मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं ।
त्वघटितघटनापटीयसी माया ॥ १ ॥

श्रुतिशतनिगमान्तशोधकान-
प्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्ना-
नघटितघटनापटीयसी माया ॥ २ ॥

सुखचिदखण्डविबोधमद्वितीयं ।
वियदनलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं ।
त्वघटितघटनापटीयसी माया ॥ ३ ॥

अपगतगुणवर्णजातिभेदे ।
सुखचिति विप्रविडाद्यहङ्कृतिं च ।
स्फुटयति सुतदारगेहमोहं ।
त्वघटितघटनापटीयसी माया ॥ ४ ॥

विधिहरिहरविभेदमप्यखण्डे ।
बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरभेदभावा-
नघटितघटनापटीयसी माया ॥ ५ ॥


इतर विविध स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed