Matrika Varna Stotram – मातृकावर्ण स्तोत्रम्


गणेश ग्रह नक्षत्र योगिनी राशि रूपिणीम् ।
देवीं मन्त्रमयीं नौमि मातृकापीठ रूपिणीम् ॥ १ ॥

प्रणमामि महादेवीं मातृकां परमेश्वरीम् ।
कालहल्लोहलोल्लोल कलनाशमकारिणीम् ॥ २ ॥

यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः ।
रवितार्क्ष्येन्दु कन्दर्प शङ्करानल विष्णुभिः ॥ ३ ॥

यदक्षर शशिज्योत्स्नामण्डितं भुवनत्रयम् ।
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ ४ ॥

यदक्षर महासूत्र प्रोतमेतज्जगत्रयम् ।
ब्रह्माण्डादि कटाहान्तं तां वन्दे सिद्धमातृकाम् ॥ ५ ॥

यदेकादशमाधारं बीजं कोणत्रयोद्भवम् ।
ब्रह्माण्डादि कटाहान्तं जगदद्यापि दृश्यते ॥ ६ ॥

अकचादिटतोन्नद्धपयशाक्षर वर्गिणीम् ।
ज्येष्ठाङ्ग बाहुपादाग्र मध्यस्वान्त निवासिनीम् ॥ ७ ॥

तामीकाराक्षरोद्धारां सारात्सारां परात्पराम् ।
प्रणमामि महादेवीं परमानन्द रूपिणीम् ॥ ८ ॥

अद्यापि यस्या जानन्ति न मनागपि देवताः ।
केयं कस्मात् क्व केनेति सरूपारूप भावनाम् ॥ ९ ॥

वन्दे तामहमक्षय्यामकाराक्षर रूपिणीम् ।
देवीं कुलकलोल्लास प्रोल्लसन्तीं परां शिवाम् ॥ १० ॥

वर्गानुक्रमयोगेन यस्यां मात्राष्टकं स्थितम् ।
वन्दे तामष्टवर्गोत्थ महासिद्ध्यष्टकेश्वरीम् ॥ ११ ॥

कामपूर्णजकाराख्य श्रीपीठान्तर्निवासिनीम् ।
चतुराज्ञा कोशभूतां नौमि श्रीत्रिपुरामहम् ॥ १२ ॥

इति द्वादशभिः श्लोकैः स्तवनं सर्वसिद्धिकृत् ।
देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः ॥ १३ ॥

भूमौ स्खलित पादानां भूमिरेवावलम्बनम् ।
त्वयि जातापराधानां त्वमेव शरणं शिवे ॥ १४ ॥

इति मातृकावर्ण स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed