Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सदा गोपिकामण्डले राजमानं
लसन्नृत्यबन्धादिलीलानिदानम् ।
गलद्दर्पकन्दर्पशोभाभिदानं
भजे नन्दसूनुं सदानन्दरूपम् ॥ १ ॥
व्रजस्त्रीजनानन्दसन्दोहसक्तं
सुधावर्षिवंशीनिनादानुरक्तम् ।
त्रिभङ्गाकृति स्वीकृतस्वीयभक्तं
भजे नन्दसूनुं सदानन्दरूपम् ॥ २ ॥
स्फुरद्रासलीलाविलासातिरम्यं
परित्यक्तगेहादिदासैकगम्यम् ।
विमानस्थिताशेषदेवादिनम्यं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ३ ॥
स्वलीलारसानन्ददुग्धोदमग्नं
प्रियस्वामिनीबाहुकण्ठैकलग्नम् ।
रसात्मैकरूपाऽवबोधं त्रिभङ्गं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ४ ॥
रसामोदसम्पादकं मन्दहासं
कृताभीरनारीविहारैकरासम् ।
प्रकाशीकृतस्वीयनानाविलासं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ५ ॥
जिताऽनङ्गसर्वाङ्गशोभाभिरामं
क्षपापूरितस्वामिनीवृन्दकामम् ।
निजाधीनतावर्तिरामातिवामं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ६ ॥
स्वसङ्गीकृतानन्तगोपालबालं
वृतस्वीयगोपीमनोवृत्तिपालम् ।
कृतानन्तचौर्यादिलीलारसालं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ७ ॥
धृताद्रीशगोवर्धनाधारहस्तं
परित्रातगोगोपगोपीसमस्तम् ।
सुराधीशसर्वादिदेवप्रशस्तं
भजे नन्दसूनुं सदानन्दरूपम् ॥ ८ ॥
इति श्रीहरिरायाचार्य विरचितं भुजङ्गप्रयाताष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.