Kishkindha Kanda Sarga 43 – किष्किन्धाकाण्ड त्रिचत्वारिंशः सर्गः (४३)



॥ उदीचीप्रेषणम् ॥

ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् ।
वीरं शतवलिं नाम वानरं वानरर्षभः ॥ १ ॥

उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् ।
वाक्यमात्महितं चैव रामस्य च हितं तथा ॥ २ ॥

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् ।
वैवस्वतसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ३ ॥

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् ।
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४ ॥

अस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये ।
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ५ ॥

कृतं हि प्रियमस्माकं राघवेण महात्मना ।
तस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ ॥

अर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् ।
तस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ ७ ॥

एतां बुद्धिं समास्थाय दृश्यते जानकी यथा ।
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८ ॥

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः ।
अस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ ९ ॥

इमानि वनदुर्गाणि नद्यः शैलान्तराणि च ।
भवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ १० ॥

तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च ।
प्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ ११ ॥

काम्बोजान् यवनांश्चैव शकानारट्‍टकानपि ।
बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ १२ ॥

चीनान् परमचीनांश्च नीहारांश्च पुनः पुनः ।
अन्विष्य दरदांश्चैव हिमवन्तं तथैव च ॥ १३ ॥

लोध्रपद्मकषण्डेषु देवदारुवनेषु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १४ ॥

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् ।
कालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ १५ ॥

महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च ।
विचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ १६ ॥

तमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् ।
ततः सुदर्शनं नाम गन्तुमर्हथ पर्वतम् ॥ १७ ॥

ततो देवसखो नाम पर्वतः पतगालयः ।
नानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ १८ ॥

तस्य काननषण्डेषु निर्झरेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १९ ॥

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् ।
अपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ २० ॥

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् ।
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ २१ ॥

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् ।
कुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥ २२ ॥

विशाला नलिनी यत्र प्रभूतकमलोत्पला ।
हंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ २३ ॥

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः ।
धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ २४ ॥

तस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च ।
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २५ ॥

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् ।
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् ॥ २६ ॥

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः ।
देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ॥ २७ ॥

कौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च ।
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २८ ॥

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः ।
अवृक्षं कामशैलं च मानसं विहगालयम् ॥ २९ ॥

न गतिस्तत्र भूतानां देवदानवरक्षसाम् ।
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ ३० ॥

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ।
मयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ ३१ ॥

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ।
स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ३२ ॥

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ।
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ३३ ॥

वन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः ।
प्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ ३४ ॥

हेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः ।
तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ ३५ ॥

औपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ।
गजः पर्येति तं देशं सदा सह करेणुभिः ॥ ३६ ॥

तत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् ।
अनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ३७ ॥

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते ।
विश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ ३८ ॥

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ।
उभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ ३९ ॥

ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ।
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४० ॥

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः ।
नीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः ॥ ४१ ॥

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः ।
तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४२ ॥

महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः ।
नीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४३ ॥

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः ।
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४४ ॥

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः ।
जातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४५ ॥

नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः ।
दिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ ४६ ॥

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ।
मुक्तावैडूर्यचित्राणि भूषणानि तथैव च ॥ ४७ ॥

स्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च ।
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ ४८ ॥

महार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः ।
शयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ४९ ॥

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ।
पानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ५० ॥

स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ।
गन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा ॥ ५१ ॥

रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ।
सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः ॥ ५२ ॥

सर्वे कामार्थसहिता वसन्ति सहयोषितः ।
गीतवादित्रनिर्घोषाः सोत्कृष्टहसितस्वनः ॥ ५३ ॥

श्रूयते सततं तत्र सर्वभूतमनोहरः ।
तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः ॥ ५४ ॥

अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ।
समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ ५५ ॥

तत्र सोमगिरिर्नाम मध्ये हेममयो महान् ।
इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये ॥ ५६ ॥

देवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ।
स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते ॥ ५७ ॥

सूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता ।
भगवानपि विश्वात्मा शम्भुरेकादशात्मकः ॥ ५८ ॥

ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ।
न कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः ॥ ५९ ॥

अन्येषामपि भूतानां नातिक्रामति वै गतिः ।
स हि सोमगिरिर्नाम देवानामपि दुर्गमः ॥ ६० ॥

तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ।
एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः ॥ ६१ ॥

अभास्करममर्यादं न जानीमस्ततः परम् ।
सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ६२ ॥

ततः कृतं दाशरथेर्महत् प्रियं
महत्तरं चापि ततो मम प्रियम् ।
कृतं भविष्यत्यनिलानलोपमा
विदेहजादर्शनजेन कर्मणा ॥ ६३ ॥

ततः कृतार्थाः सहिताः सबान्धावा
मयाऽर्चिताः सर्वगुणैर्मनोरमैः ।
चरिष्यथोर्वीं प्रतिशान्तशत्रवः
सहप्रिया भूतधराः प्लवङ्गमाः ॥ ६४ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३ ॥


सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed