Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सेनानिवेशः ॥
इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः ।
बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ॥ १ ॥
यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्वचित् ।
आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ॥ २ ॥
चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् ।
त्वद्विधो वाऽपि मित्राणां प्रतिकुर्यात्परन्तप ॥ ३ ॥
एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम् ।
जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम् ॥ ४ ॥
त्वत्सनाथः सखे सङ्ख्ये जेतास्मि सकलानरीन् ।
त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि ॥ ५ ॥
जहारात्मविनाशाय वैदेहीं राक्षसाधमः ।
वञ्चयित्वा तु पौलोमीमनुह्रादो यथा शचीम् ॥ ६ ॥
न चिरात्तं हनिष्यामि रावणं निशितैः शरैः ।
पौलोम्याः पितरं दृप्तं शतक्रतुरिवाहवे ॥ ७ ॥
एतस्मिन्नन्तरे चैव रजः समभिवर्तत ।
उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम् ॥ ८ ॥
दिशः पर्याकुलाश्चासन् रजसा तेन मूर्छता ।
चचाल च मही सर्वा सशैलवनकानना ॥ ९ ॥
ततो नगेन्द्रसङ्काशैस्तीक्ष्णदंष्ट्रैर्महाबलैः ।
कृत्स्ना सञ्छादिता भूमिरसङ्ख्येयैः प्लवङ्गमैः ॥ १० ॥
निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः ।
कोटीशतपरीवारैः कामरूपिभिरावृता ॥ ११ ॥
नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः ।
हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः ॥ १२ ॥
तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः ।
पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः ॥ १३ ॥
कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा ।
वीरः शतवलिर्नाम वानरः प्रत्यदृश्यत ॥ १४ ॥
ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता ।
अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत ॥ १५ ॥
तथाऽपरेण कोटीनां सहस्रेण समन्वितः ।
पिता रुमायाः सम्प्राप्तः सुग्रीवश्वशुरो विभुः ॥ १६ ॥
पद्मकेसरसङ्काशस्तरुणार्कनिभाननः ।
बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः ॥ १७ ॥
अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः ।
पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत ॥ १८ ॥
गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः ।
वृतः कोटिसहस्रेण वानराणामदृश्यत ॥ १९ ॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः ।
वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत ॥ २० ॥
महाचलनिभैर्घोरैः पनसो नाम यूथपः ।
आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः ॥ २१ ॥
नीलाञ्जनचयाकारो नीलो नामाथ यूथपः ।
अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः ॥ २२ ॥
ततः काञ्चनशैलाभो गवयो नाम यूथपः ।
आजगाम महावीर्यः कोटिभिः पञ्चभिर्वृतः ॥ २३ ॥
दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा ।
वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः ॥ २४ ॥
मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महाबलौ ।
कोटिकोटिसहस्रेण वानराणामदृश्यताम् ॥ २५ ॥
गजश्च बलवान् वीरः कोटिभिस्तिसृभिर्वृतः ।
आजगाम महातेजाः सुग्रीवस्य समीपतः ॥ २६ ॥
ऋक्षराजो महातेजा जाम्बवान्नाम नामतः ।
कोटिभिर्दशभिः प्राप्तः सुग्रीवस्य वशे स्थितः ॥ २७ ॥
रुमण्वान्नाम विक्रान्तो वानरो वानरेश्वरम् ।
आययौ बलवांस्तूर्णं कोटीशतसमावृतः ॥ २८ ॥
ततः कोटिसहस्राणां सहस्रेण शतेन च ।
पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः ॥ २९ ॥
ततः पद्मसहस्रेण वृतः शङ्कुशतेन च ।
युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः ॥ ३० ॥
ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः ।
पञ्चभिर्हरिकोटिभिर्दूरतः प्रत्यदृश्यत ॥ ३१ ॥
इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत ।
एकादशानां कोटीनामीश्वरस्तैश्च संवृतः ॥ ३२ ॥
ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसन्निभः ।
अयुतेनावृतश्चैव सहस्रेण शतेन च ॥ ३३ ॥
ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः ।
प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली ॥ ३४ ॥
कैलासशिखराकारैर्वानरैर्भीमविक्रमैः ।
वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत ॥ ३५ ॥
नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः ।
कोटीशतेन सम्प्राप्तः सहस्रेण शतेन च ॥ ३६ ॥
ततो दधिमुखः श्रीमान् कोटिभिर्दशभिर्वृतः ।
सम्प्राप्तोऽभिमतस्तस्य सुग्रीवस्य महात्मनः ॥ ३७ ॥
शरभः कुमुदो वह्निर्वानरो रंह एव च ।
एते चान्ये च बहवो वानराः कामरूपिणः ॥ ३८ ॥
आवृत्य पृथिवीं सर्वां पर्वातांश्च वनानि च ।
यूथपाः समनुप्राप्तास्तेषां सङ्ख्या न विद्यते ॥ ३९ ॥
आगताश्च विशिष्टाश्च पृथिव्यां सर्ववानराः ।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ ४० ॥
अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव ।
कुर्वाणा बहुशब्दांश्च प्रहृष्टा बाहुशालिनः ॥ ४१ ॥
शिरोभिर्वानरेन्द्राय सुग्रीवस्य न्यवेदयन् ।
अपरे वानरश्रेष्ठाः सम्यम्य च यथोचितम् ॥ ४२ ॥
सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा ।
सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान् ।
निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत् ॥ ४३ ॥
यथासुखं पर्वतनिर्झरेषु
वनेषु सर्वेषु च वानरेन्द्राः ।
निवेशयित्वा विधिवद्बलानि
बलं बलज्ञः प्रतिपत्तुमीष्टे ॥ ४४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९ ॥
सम्पूर्ण वाल्मीकि रामायणे किष्किन्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

