Dakaradi Sri Dattatreya Ashtottara Shatanama Stotram – दकारादि श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम्


दत्तं वन्दे दशातीतं दयाब्धि दहनं दमम् ।
दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १ ॥

दातारं दारुणं दान्तं दास्यादं दानतोषणम् ।
दानं दानप्रियं दावं दासत्रं दारवर्जितम् ॥ २ ॥

दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् ।
दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥ ३ ॥

दीनपं दीधितिं दीप्तं दीर्घं दीपं च दीप्तगुम् ।
दीनसेव्यं दीनबन्धुं दीक्षादं दीक्षितोत्तमम् ॥ ४ ॥

दुर्ज्ञेयं दुर्ग्रहं दुर्गं दुर्गेशं दुःखभञ्जनम् ।
दुष्टघ्नं दुग्धपं दुःखं दुर्वासोऽग्र्यं दुरासदम् ॥ ५ ॥

दूतं दूतप्रियं दूष्यं दूष्यत्रं दूरदर्शिपम् ।
दूरं दूरतमं दूर्वाभं दूराङ्गं च दूरगम् ॥ ६ ॥

देवार्च्यं देवपं देवं देयज्ञं देवतोत्तमम् ।
देवज्ञं देहिनं देशं देशिकं देहिजीवनम् ॥ ७ ॥

दैन्यं दैन्यहरं दैवं दैन्यदं दैविकान्तकम् ।
दैत्यघ्नं दैवतं दैर्घ्यं दैवज्ञं दैहिकार्तिदम् ॥ ८ ॥

दोषघ्नं दोषदं दोषं दोषित्रं दोर्द्वयान्वितम् ।
दोषज्ञं दोहपं दोषेड्बन्धुं दोर्ज्ञं च दोहदम् ॥ ९ ॥

दौरात्म्यघ्नं दौर्मनस्यहरं दौर्भाग्यमोचनम् ।
दौष्टत्र्यं दौष्कुल्यदोषहरं दौर्हृद्यभञ्जनम् ॥ १० ॥

दण्डज्ञं दण्डिनं दण्डं दम्भघ्नं दम्भिशासनम् ।
दन्त्यास्यं दन्तुरं दंशिघ्नं दण्ड्यज्ञं च दण्डदम् ॥ ११ ॥

अनन्तानन्तनामानि सन्ति तेऽनन्तविक्रम ।
वेदोऽपि चकितो यत्र नृर्वाग् हृद्दूर का कथा ॥ १२ ॥

इति श्रीपरमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं दकारादि दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed