Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
द्विरदवदन विषमरद वरद जयेशान शान्तवरसदन ।
सदनवसादन दयया कुरु सादनमन्तरायस्य ॥ १ ॥
इन्दुकला कलितालिक सालिकशुम्भत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्यस्य प्रपञ्चस्य ॥ २ ॥
वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।
आरूह्य वज्रदन्तं आखुं विदधासि विपदन्तम् ॥ ३ ॥
लम्बोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमान्तरायापहारिचारुदृशा ॥ ४ ॥
आनन्दतुन्दिलाखिलवृन्दारकवृन्दवन्दिताङ्घ्रियुग ।
सुखधृतदण्डरसालो नागजभालोऽतिभासि विभो ॥ ५ ॥
अगणेयगुणेशात्मज चिन्तकचिन्तामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय देव पाहि मां दीनम् ॥ ६ ॥
रुचिरवचोऽमृतरावोन्नीता नीता दिवं स्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादाम्बुजे विशतु ॥ ७ ॥
इति चिन्तामणिषट्पदी ॥
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.