Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥
त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यः एकबिल्वं शिवार्पणम् ॥ ३ ॥
सालग्रामशिलामेकां जातु विप्राय योऽर्पयेत् ।
सोमयज्ञमहापुण्यं एकबिल्वं शिवार्पणम् ॥ ४ ॥
दन्तिकोटिसहस्राणि वाजपेयशतानि च ।
कोटिकन्यामहादानां एकबिल्वं शिवार्पणम् ॥ ५ ॥
पार्वत्याः स्वेदसञ्जातं महादेवस्य च प्रियम् ।
बिल्ववृक्षं नमस्यामि एकबिल्वं शिवार्पणम् ॥ ६ ॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७ ॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय एकबिल्वं शिवार्पणम् ॥ ८ ॥
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥ ९ ॥
इति बिल्वाष्टकम् ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.