Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥ १ ॥
त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २ ॥
कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं शैलदानेन एकबिल्वं शिवार्पणम् ॥ ३ ॥
काशीक्षेत्र निवासं च कालभैरव दर्शनं ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४ ॥
इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥ ५ ॥
रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा ।
तटाकानिच सन्तानं एकबिल्वं शिवार्पणम् ॥ ६ ॥
अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥ ७ ॥
उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गं एकबिल्वं शिवार्पणम् ॥ ८ ॥
सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥ ९ ॥
दन्ति कोटि सहस्रेषु अश्वमेध शतक्रतौ ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ १० ॥
बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापानाशनं ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥ ११ ॥
सहस्रवेद पाठेषु ब्रह्मस्तापन मुच्यते ।
अनेक व्रतकोटीनां एकबिल्वं शिवार्पणम् ॥ १२ ॥
अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥ १३ ॥
बिल्वष्टकमिदं पुण्यं यः पठेच्छिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥ १४ ॥
इतर श्री शिव स्तोत्राणि पश्यतु । इतर विविध स्तोत्राणि पश्यतु ।
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.