Balakanda Sarga 59 – बालकाण्ड एकोनषष्ठितमः सर्गः (५९)


॥ वासिष्ठशापः ॥

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः ।
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम् ॥ १ ॥

ऐक्ष्वाक स्वागतं वत्स जानामि त्वां सुधार्मिकम् ।
शरणं ते भविष्यामि मा भैषीर्नृपपुङ्गव ॥ २ ॥

अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मणः ।
यज्ञसाह्यकरान्राजंस्ततो यक्ष्यसि निर्वृतः ॥ ३ ॥

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥ ४ ॥

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप ।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः ॥ ५ ॥

एवमुक्त्वा महातेजाः पुत्रान्परमधार्मिकान् ।
व्यादिदेश महाप्राज्ञान्यज्ञसम्भारकारणात् ॥ ६ ॥

सर्वान् शिष्यान्समाहूय वाक्यमेतदुवाच ह ।
सर्वानृषिगणान् वत्सा आनयध्वं ममाज्ञया ॥ ७ ॥

सशिष्यसुहृदश्चैव सर्त्विजः सुबहुश्रुतान् ।
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः ॥ ८ ॥

तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम् ।
तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ॥ ९ ॥

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ।
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ॥ १० ॥

ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ।
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ॥ ११ ॥

सर्वदेशेषु चागच्छन्वर्जयित्वा महोदयम् ।
वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ॥ १२ ॥

यदाह वचनं सर्वं शृणु त्वं मुनिपुङ्गव ।
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥ १३ ॥

कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ।
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ॥ १४ ॥

कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ।
एतद्वचननैष्ठुर्यमूचुः संरक्तलोचनाः ॥ १५ ॥

वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः ।
तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुङ्गवः ॥ १६ ॥

क्रोधसंरक्तनयनः सरोषमिदमब्रवीत् ।
ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ॥ १७ ॥

भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः ।
अद्य ते कालपाशेन नीता वैवस्वतक्षयम् ॥ १८ ॥

सप्त जातिशतान्येव मृतपाः सन्तु सर्वशः ।
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ॥ १९ ॥

विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् ।
महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत् ॥ २० ॥

दूषितः सर्वलोकेषु निषादत्वं गमिष्यति ।
प्राणातिपातनिरतो निरनुक्रोशतां गतः ॥ २१ ॥

दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति ।
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।
विरराम महातेजा ऋषिमध्ये महामुनिः ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥ ५९ ॥

बालकाण्ड षष्टितमः सर्गः (६०) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed