Balakanda Sarga 49 – बालकाण्ड एकोनपञ्चाशः सर्गः (४९)


॥ अहल्याशापमोक्षः ॥

अफलस्तु ततः शक्रो देवानग्निपुरोगमन् ।
अब्रवीत् त्रस्तवदनः सर्षिसङ्घान् सचारणान् ॥ १ ॥

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ २ ॥

अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता ।
शापमोक्षेण महता तपोस्यापहृतं मया ॥ ३ ॥

तस्मात्सुरवराः सर्वे सर्षिसङ्घाः सचारणाः ।
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ ४ ॥

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः ।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्गणैः ॥ ५ ॥

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत ॥ ६ ॥

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।
भवतां हर्षणार्थे च ये च दास्यन्ति मानवाः ॥ ७ ॥

अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम् ।
अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः ॥ ८ ॥

उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ।
तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः ॥ ९ ॥

अफलान्भुञ्जते मेषान्फलैस्तेषामयोजयन् ।
इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव ॥ १० ॥

गौतमस्य प्रभावेन तपसश्च महात्मनः ।
तदागच्छ महातेज आश्रमं पुण्यकर्मणः ॥ ११ ॥

तारयैनां महाभागामहल्यां देवरूपिणीम् ।
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ॥ १२ ॥

विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ।
ददर्श च महाभागां तपसा द्योतितप्रभाम् ॥ १३ ॥

लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ।
प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ॥ १४ ॥

स तुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव ।
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव ॥ १५ ॥

धूमेनापि परीताङ्गीं दीप्तामग्निशिखामिव ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ १६ ॥

त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ।
शापस्यान्तमुपागम्य तेषां दर्शनमागता ॥ १७ ॥

राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥ १८ ॥

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ १९ ॥

पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिःस्वनैः ।
गन्धर्वाप्सरसां चैव महानासीत्समागमः ॥ २० ॥

साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम् ॥ २१ ॥

गौतमोऽपि महातेजा अहल्यासहितः सुखी । [हि]
रामं सम्पूज्य विधिवत्तपस्तेपे महातपाः ॥ २२ ॥

रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९ ॥

बालकाण्ड पञ्चाशः सर्गः (५०) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed