Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ दितिगर्भभेदः ॥
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता ।
मारीचं कश्यपं राम भर्तारमिदमब्रवीत् ॥ १ ॥
हतपुत्राऽस्मि भगवंस्तव पुत्रैर्महाबलैः ।
शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम् ॥ २ ॥
साऽहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि ।
बलवन्तं महेष्वासं स्थितिज्ञं समदर्शिनम् ॥ ३ ॥
ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा ॥ ४ ॥
प्रत्युवाच महातेजा दितिं परमदुःखिताम् ।
एवं भवतु भद्रं ते शुचिर्भव तपोधने ॥ ५ ॥
जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे ।
पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि ॥ ६ ॥
पुत्रं त्रैलोक्यभर्तारं मत्तस्त्वं जनयिष्यसि ।
एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम् ॥ ७ ॥
समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ ।
गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता ॥ ८ ॥
कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् ।
तपस्तस्यां हि कुर्वन्त्यां परिचर्यां चकार ह ॥ ९ ॥
सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा ।
अग्निं कृशान्काष्ठमपः फलं मूलं तथैव च ॥ १० ॥ [कुशान्]
न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम् ।
गात्रसंवहनैश्चैव श्रमापनयनैस्तथा ॥ ११ ॥
शक्रः सर्वेषु कालेषु दितिं परिचचार ह ।
अथ वर्षसहस्रे तु दशोने रघुनन्दन ॥ १२ ॥
दितिः परमसम्प्रीता सहस्राक्षमथाब्रवीत् ।
याचितेन सुरश्रेष्ठ तव पित्रा महात्मना ॥ १३ ॥
वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति ।
तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर ॥ १४ ॥
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ।
तमहं त्वत्कृते पुत्रं समाधास्ये जयोत्सुकम् ॥ १५ ॥
त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः ।
एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे ॥ १६ ॥
निद्रयाऽपहृता देवी पादौ कृत्वाऽथ शीर्षतः ।
दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम् ॥ १७ ॥
शिरःस्थाने कृतौ पादौ जहास च मुमोद च ।
तस्याः शरीरविवरं विवेश च पुरन्दरः ॥ १८ ॥
गर्भं च सप्तधा राम बिभेद परमात्मवान् ।
भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा ॥ १९ ॥
रुरोद सुस्वरं राम ततो दितिरबुध्यत ।
मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत ॥ २० ॥
बिभेद च महातेजा रुदन्तमपि वासवः ।
न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ॥ २१ ॥
निष्पपात ततः शक्रो मातुर्वचनगौरवात् ।
प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ॥ २२ ॥
अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा ।
तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ।
अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६ ॥
बालकाण्ड सप्तचत्वारिंशः सर्गः (४७) >>
सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.