Balakanda Sarga 27 – बालकाण्ड सप्तविंशः सर्गः (२७)


॥ अस्त्रग्रामप्रदानम् ॥

अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम् ॥ १ ॥

परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥ २ ॥

देवासुरगणान्वापि सगन्धर्वोरगानपि ।
यैरमित्रान्प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ ४ ॥

धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथाऽत्युग्रमैन्द्रमस्त्रं तथैव च ॥ ५ ॥

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव एषीकमपि राघव ॥ ६ ॥

ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।
गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे ॥ ७ ॥

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।
धर्मपाशमहं राम कालपाशं तथैव च ॥ ८ ॥

पाशं वारुणमस्त्रं च ददाम्यहमनुत्तमम् ।
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥ ९ ॥

ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥ १० ॥

वायव्यं प्रथनं नाम ददामि च तवानघ ।
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥ ११ ॥

शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।
कङ्कालं मुसलं घोरं कापालमथ कङ्कणम् ॥ १२ ॥

धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ।
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥ १३ ॥

असिरत्नं महाबाहो ददामि नृवरात्मज ।
गान्धर्वमस्त्रं दयिते मानवं नाम नामतः ॥ १४ ॥ [मोहनं]

प्रस्वापनप्रशमनं दद्मि सौरं च राघव ।
दर्पणं शोषणं चैव सन्तापनविलापने ॥ १५ ॥

मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।
[* गान्धर्वमस्त्रं दयितं मानवं नाम नामतः । *]
पैशाचमस्त्रं दयितं मोहनं नाम नामतः ॥ १६ ॥

प्रतीच्छ नरशार्दूल राजपुत्र महायशः ।
तामसं नरशार्दूल सौमनं च महाबल ॥ १७ ॥

संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ।
सत्यमस्त्रं महाबाहो तथा मायाधरं परम् ॥ १८ ॥

घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ।
सौम्यास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदामनम् ॥ १९ ॥

दारुणं च भगस्यापि शितेषुमथ मानवम् ।
एतान्राम महाबाहो कामरूपान्महाबलान् ॥ २० ॥

गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ।
स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ॥ २१ ॥

ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ।
सर्वसङ्ग्रहणं येषां दैवतैरपि दुर्लभम् ॥ २२ ॥

तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ।
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ॥ २३ ॥

उपतस्तुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ।
ऊचुश्च मुदिताः सर्वे रामं प्राञ्जलयस्तदा ॥ २४ ॥

इमे स्म परमोदाराः किङ्करास्तव राघव ।
[* अधिकपाठः –
यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै ।
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ।
*]
प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मानसा मे भविष्यध्वमिति तानभ्यचोदयत् ॥ २५ ॥

ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥ २७ ॥

बालकाण्ड अष्टाविंशः सर्गः (२८) >>


सम्पूर्ण वाल्मीकि रामायणे बालकाण्ड पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed