Ayodhya Kanda Sarga 93 – अयोध्याकाण्ड त्रिनवतितमः सर्गः (९३)



॥ चित्रकूटवनप्रेक्षणम् ॥

तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।
अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥ १ ॥

ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः ।
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २ ॥

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।
वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ ३ ॥

सागरौघनिभा सेना भरतस्य महात्मनः ।
महीं सञ्छादयामास प्रावृषिद्यामिवाम्बुदः ॥ ४ ॥

तुरङ्गाघैरवतता वारणैश्च महाजवैः ।
अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः ॥ ५ ॥

स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ ६ ॥

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ ७ ॥

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।
एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ ८ ॥

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ ९ ॥

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घनाः ॥ १० ॥

किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।
मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ ११ ॥

एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः ।
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ १२ ॥

कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ १३ ॥

निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ १४ ॥

खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ १५ ॥

स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।
एतान्सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ १६ ॥

एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् ।
एतमाविशतः शीघ्रमधिवासं पतत्त्रिणः ॥ १७ ॥

अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा ।
तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥ १८ ॥

मृगा मृगीभिः सहिता बहवः पृषता वने ।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ १९ ॥

साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २० ॥

भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।
विविशुस्तद्वनं शूराः धूमं च ददृशुस्ततः ॥ २१ ॥

ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २२ ॥

अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।
मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २३ ॥ [अन्ये]

तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ २४ ॥

यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः ।
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २५ ॥

एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २६ ॥

व्यवस्थिता या भरतेन सा चमू-
-र्निरीक्षमाणाऽपि च धूममग्रतः ।
बभूव हृष्टा नचिरेण जानती
प्रियस्य रामस्य समागमं तदा ॥ २७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥

अयोध्याकाण्ड चतुर्नवतितमः सर्गः (९४) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed