Ayodhya Kanda Sarga 20 – अयोध्याकाण्ड विंशः सर्गः (२०)

॥ कौसल्याक्रन्दः ॥

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ ।
आर्तशब्दो महाञ्जज्ञे स्त्रीणामन्तःपुरे तदा ॥ १ ॥

कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च ।
गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ॥ २ ॥

कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा ।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ ३ ॥

न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
कृद्धान्प्रसादयन्सर्वान्स इतोऽद्य प्रवत्स्यति ॥ ४ ॥

अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम् ।
यो गतिं सर्वलोकानां परित्यजति राघवम् ॥ ५ ॥

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः ॥ ६ ॥

स हि चान्तः पुरे घोरमार्तशब्दं महीपतिः ।
पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ॥ ७ ॥

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः ।
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ ८ ॥

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।
उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् ॥ ९ ॥

दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः ।
जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥ १० ॥

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।
ब्राह्मणान्वेदसम्पन्नान्वृद्धान्राज्ञाभिसत्कृतान् ॥ ११ ॥

प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः ।
स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ॥ १२ ॥

वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।
न्यवेदयन्त त्वरिता राममातुः प्रियं तदा ॥ १३ ॥

कौसल्याऽपि तदा देवी रात्रिं स्थित्वा समाहिता ।
प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ १४ ॥

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा ।
अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ॥ १५ ॥

प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।
ददर्श मातरं तत्र हावयन्ती हुताशनम् ॥ १६ ॥

देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम् ।
दध्यक्षतं घृतं चैव मोदकान्हविषस्तथा ॥ १७ ॥

लाजान्माल्यानि शुक्लानि पायसं कृसरं तथा ।
समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ १८ ॥

तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम् ।
तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम् ॥ १९ ॥

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।
अभिचक्राम संहृष्टा किशोरं बडबा यथा ॥ २० ॥

स मातरमभिक्रान्तामुपसङ्गृह्य राघवः ।
परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्धनि ॥ २१ ॥

तमुवाच दुराधर्षं राघवं सुतमात्मनः ।
कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् ।
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले ॥ २३ ॥

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।
अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥

दत्तमासनमालभ्य भोजनेन निमन्त्रितः ।
मातरं राघवः किञ्चिद्व्रीडात्प्राञ्जलिरब्रवीत् ॥ २५ ॥

स स्वभावविनीतश्च गौरवाच्च तदा नतः ।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २६ ॥

देवि नूनं न जानीषे महद्भयमुपस्थितम् ।
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २७ ॥

गमिष्ये दण्डकारण्यं किमनेनासनेन मे ।
विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २८ ॥

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम् ॥ २९ ॥

भरताय महाराजो यौवराज्यं प्रयच्छति ।
मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ ३० ॥

स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।
आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ ३१ ॥

सा निकृत्तैव सालस्य यष्टिः परशुना वने ।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ ३२ ॥

तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥

उपावृत्योत्थितां दीनां बडबामिव वाहिताम् ।
पांसुकुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ ३४ ॥

सा राघवमुपासीनमसुखार्ता सुखोचिता ।
उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ ३५ ॥

यदि पुत्र न जायेथा मम शोकाय राघव ।
न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६ ॥

एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजाऽस्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ ३७ ॥

न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।
अपि पुत्रे तु पश्येयमिति रामास्थितं मया ॥ ३८ ॥

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।
अहं श्रोष्ये सपत्नीनामवराणां वरा सती ॥ ३९ ॥

अतो दुःखतरं किं नु प्रमदानां भविष्यति ।
मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ ४० ॥

त्वयि सन्निहितेऽप्येवमहमासं निराकृता ।
किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ ४१ ॥

अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमतन्त्रिता ।
परिवारेण कैकेय्याः समा वाप्यथवावरा ॥ ४२ ॥

यो हि मां सेवते कश्चिदथवाप्यनुवर्तते ।
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ ४३ ॥

नित्यक्रोधतया तस्याः कथं नु खरवादि तत् ।
कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ ४४ ॥

दश सप्त च वर्षाणि तव जातस्य राघव ।
असितानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ ४५ ॥

तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरम् ।
विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ ४६ ॥

अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम् ।
कृपणा वर्तयिष्यामि कथं कृपणजीविकाम् ॥ ४७ ॥

उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः ।
दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया ॥ ४८ ॥

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ ४९ ॥

ममैव नूनं मरणं न विद्यते
न चावकाशोऽस्ति यमक्षये मम ।
यदन्तकोऽद्यैव न मां जिहीर्षति
प्रसह्य सिंहो रुदतीं मृगीमिव ॥ ५० ॥

स्थिरं हि नूनं हृदयं ममायसं
न भिद्यते यद्भुवि नावदीर्यते ।
अनेन दुःखेन च देहमर्पितं
ध्रुवं ह्यकाले मरणं न विद्यते ॥ ५१ ॥

इदं तु दुःखं यदनर्थकानि मे
व्रतानि दानानि च सम्यमाश्च हि ।
तपश्च तप्तं यदपत्यकारणात्
सुनिष्फलं बीजमिवोप्तमूषरे ॥ ५२ ॥

यदि ह्यकाले मरणं स्वयेच्छया
लभेत कश्चिद्गुरुदुःखकर्शितः ।
गताहमद्यैव परेतसंसदं
विना त्वया धेनुरिवात्मजेन वै ॥ ५३ ॥

अथापि किं जीवितमद्य मे वृथा
त्वया विना चन्द्रनिभाननप्रभ ।
अनुव्रजिष्यामि वनं त्वयैव गौः
सुदुर्बला वत्समिवानुकाङ्क्षया ॥ ५४ ॥

भृशमसुखममर्षिता तदा
बहु विललाप समीक्ष्य राघवम् ।
व्यसनमुपनिशाम्य सा महत्
सुतमिव बद्धमवेक्ष्य किंनरी ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥ २० ॥

अयोध्याकाण्ड एकविंशः सर्गः (२१) >>


सम्पूर्ण वाल्मीकि रामायणे अयोध्यकाण्ड पश्यतु ।


గమనిక: "శ్రీ శివ స్తోత్రనిధి" పుస్తకము ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.

Facebook Comments

You may also like...

error: Not allowed
%d bloggers like this: