Aranya Kanda Sarga 28 – अरण्यकाण्ड अष्टाविंशः सर्गः (२८)


॥ खररामसम्प्रहारः ॥

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह ।
खरस्याप्यभवत्रासो दृष्ट्वा रामस्य विक्रमम् ॥ १ ॥

स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः ।
हतमेकेन रामेण त्रिशिरोदूषणावपि ॥ २ ॥

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ।
आससाद खरो रामं नमुचिर्वासवं यथा ॥ ३ ॥

विकृष्य बलवच्चापं नाराचान्रक्तभोजनान् ।
खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ४ ॥

ज्यां विधुन्वन् सुबहुशः शिक्षयाऽस्त्राणि दर्शयन् ।
चकार समरे मार्गान् शरै रथगतः खरः ॥ ५ ॥

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ ६ ॥

स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः ।
नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ७ ॥

तद्बभूव शितैर्बाणैः खररामविसर्जितैः ।
पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ ८ ॥

शरजालावृतः सूर्यो न तदा स्म प्रकाशते ।
अन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः ॥ ९ ॥

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः ।
आजघान खरो रामं तोत्रैरिव महाद्विपम् ॥ १० ॥

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् ।
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥

हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् ।
परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२ ॥

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ १३ ॥

ततः सूर्यनिकाशेन रथेन महता खरः ।
आससाद रणे रामं पतङ्ग इव पावकम् ॥ १४ ॥

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः ।
खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ १५ ॥

स पुनस्त्वपरान् सप्त शरानादाय वर्मणि ।
निजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ १६ ॥

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः ।
पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १७ ॥

ततः शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समेरे खरः ॥ १८ ॥

स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।
रराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ १९ ॥

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः ।
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ २० ॥

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा ।
वरं तद्धनुरुद्यम्य खरं समभिधावत ॥ २१ ॥

ततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः ।
बिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ २२ ॥

स दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः ।
जगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ २३ ॥

तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः ।
विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ २४ ॥

स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः ।
विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ २५ ॥

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे ।
मुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ २६ ॥

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् ।
त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥ २७ ॥

ततः पश्चान्महातेजा नाराचान् भास्करोपमान् ।
जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ २८ ॥

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ २९ ॥

त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३० ॥

छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३१ ॥

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः ।
गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३२ ॥

तत्कर्म रामस्य महारथस्य
समेत्य देवाश्च महर्षयश्च ।
अपूजयन् प्राञ्जलयः प्रहृष्टा-
-स्तदा विमानाग्रगताः समेताः ॥ ३३ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये अरण्यकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed