Aranya Kanda Sarga 11 – अरण्यकाण्ड एकादशः सर्गः (११)


॥ अगस्त्याश्रमः ॥

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ १ ॥

तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि च ।
नदीश्च विविधा रम्या जग्मतुः सीतया सह ॥ २ ॥

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥ ३ ॥

यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः ।
महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ॥ ४ ॥

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ ५ ॥

पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम् ।
सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः ॥ ६ ॥

प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे ।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ ७ ॥

ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः ।
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८ ॥

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ ९ ॥

वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो ।
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ॥ १० ॥

प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे ।
इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ॥ ११ ॥

निर्मितं तपसा राम मुनिना माण्डकर्णिना ।
स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः ॥ १२ ॥

दश वर्षसहस्राणि वायुभक्षो जलाश्रयः ।
ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः ॥ १३ ॥

अब्रुवन्वचनं सर्वे परस्परसमागताः ।
अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ॥ १४ ॥

इति संविग्नमनसः सर्वे ते त्रिदिवौकसः ।
तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः ॥ १५ ॥

प्रधानाप्सरसः पञ्च विद्युत्सदृशवर्चसः । [च्चलित]
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ॥ १६ ॥

नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ।
ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः ॥ १७ ॥

तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम् ।
तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ॥ १८ ॥

रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ।
तासां सङ्क्रीडमानानामेष वादित्रनिःस्वनः ॥ १९ ॥

श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ।
आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः ॥ २० ॥

राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ।
एवं कथयमानस्य ददर्शाश्रममण्डलम् ॥ २१ ॥

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ॥ २२ ॥

उवास मुनिभिः सर्वैः पूज्यमानो महायशाः ।
तथा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले ॥ २३ ॥

उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ।
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ॥ २४ ॥

येषामुषितवान्पूर्वं सकाशे स महास्त्रवित् ।
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् ॥ २५ ॥

क्वचिच्च चतुरो मासान्पञ्चषट् चापरान्क्वचित् ।
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ॥ २६ ॥

त्रीन् मासानष्टमासांश्च राघवो न्यवसत्सुखम् ।
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ॥ २७ ॥

रमतश्चानुकूल्येन ययुः संवत्सरा दश ।
परिवृत्य च धर्मज्ञो राघवः सह सीतया ॥ २८ ॥

सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह ।
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ॥ २९ ॥

तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः ।
अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् ॥ ३० ॥

उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ।
अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः ॥ ३१ ॥

वसतीति मया नित्यं कथाः कथयतां श्रुतम् ।
न तु जानामि तं देशं वनस्यास्य महत्तया ॥ ३२ ॥

कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ।
प्रसादात्तत्रभवतः सानुजः सह सीतया ॥ ३३ ॥

अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ।
मनोरथो महानेष हृदि मे परिवर्तते ॥ ३४ ॥

यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ।
इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ॥ ३५ ॥

सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ।
अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ॥ ३६ ॥

अगस्त्यमभिगच्छेति सीतया सह राघव ।
दिष्ट्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम् ॥ ३७ ॥

अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ।
योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः ॥ ३८ ॥

दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः ।
स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते ॥ ३९ ॥

बहुपुष्पफले रम्ये नानाशकुनिनादिते ।
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः ॥ ४० ॥

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ।
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ॥ ४१ ॥

दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ।
तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ॥ ४२ ॥

रमणीये वनोद्देशे बहुपादपसंवृते ।
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया ॥ ४३ ॥

स हि रम्यो वनोद्देशो बहुपादपसङ्कुलः ।
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ॥ ४४ ॥

अद्यैव गमने बुद्धिं रोचयस्व महायशः ।
इति रामो मुनेः श्रुत्वा सह भ्रात्राऽभिवाद्य च ॥ ४५ ॥

प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ।
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ॥ ४६ ॥

सरांसि सरितश्चैव पथि मार्गवशानुगाः ।
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ॥ ४७ ॥

इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।
एतदेवाश्रमपदं नूनं तस्य महात्मनः ॥ ४८ ॥

अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ।
यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ॥ ४९ ॥

सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ।
पिप्पलीनां च पक्वानां वनादस्मादुपागतः ॥ ५० ॥

गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ।
तत्र तत्र च दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः ॥ ५१ ॥

लूनाश्च पथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ।
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ॥ ५२ ॥

पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते ।
विविक्तेषु च तीर्थेषु कृतस्नाता द्विजातयः ॥ ५३ ॥

पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः ।
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ॥ ५४ ॥

अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ।
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ॥ ५५ ॥

यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ।
इहैकदा किल क्रूरो वातापिरपि चेल्वलः ॥ ५६ ॥

भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ ।
धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् ॥ ५७ ॥

आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः ।
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ॥ ५८ ॥

तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ।
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ॥ ५९ ॥

वातापे निष्क्रमस्वेति स्वरेण महता वदन् ।
ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् ॥ ६० ॥

भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ।
ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ॥ ६१ ॥

विनाशितानि संहत्य नित्यशः पिशिताशनैः ।
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ॥ ६२ ॥

अनुभूय किल श्राद्धे भक्षितः स महासुरः ।
ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः ॥ ६३ ॥

भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभाषत ।
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ॥ ६४ ॥

अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः ।
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ॥ ६५ ॥

भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ।
अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् ॥ ६६ ॥

प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ।
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा ॥ ६७ ॥

चक्षुषाऽनलकल्पेन निर्दग्धो निधनं गतः ।
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ॥ ६८ ॥

विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ।
एवं कथयमानस्य तस्य सौमित्रिणा सह ॥ ६९ ॥

रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ।
उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि ॥ ७० ॥

प्रविवेशाश्रमपदं तमृषिं सोऽभ्यवादयत् ।
सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः ॥ ७१ ॥

न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ।
तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले ॥ ७२ ॥

भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः ।
अभिवादये त्वां भगवन्सुखमध्युषितो निशाम् ॥ ७३ ॥

आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ।
गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ॥ ७४ ॥

यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ।
नीवारान्पनसांस्तालांस्तिमिशान्वञ्जुलान्धवान् ॥ ७५ ॥

चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान् ।
पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ॥ ७६ ॥

ददर्श रामः शतशस्तत्र कान्तारपादपान् ।
हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ॥ ७७ ॥

मत्तैः शकुनिसङ्घैश्च शतशश्च प्रणादितान् ।
ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ॥ ७८ ॥

पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ।
स्निग्धपत्रा यथा वृक्षा यथा शान्तमृगद्विजाः ॥ ७९ ॥ [क्षान्ता]

आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ।
अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ॥ ८० ॥

आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः ।
प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ॥ ८१ ॥

प्रशान्तमृगयूथश्च नानाशकुनिनादितः ।
निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ॥ ८२ ॥

दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा ।
तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ॥ ८३ ॥

दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ।
यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा ॥ ८४ ॥

तदाप्रभृतिनिर्वैराः प्रशान्ता रजनीचराः ।
नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा ॥ ८५ ॥

प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ।
मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः ॥ ८६ ॥

निदेशं पालयन्यस्य विन्ध्यः शैलो न वर्धते ।
अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ॥ ८७ ॥

अगस्त्यस्याश्रमः श्रीमान्विनीतजनसेवितः ।
एष लोकार्चितः साधुर्हिते नित्यरतः सताम् ॥ ८८ ॥

अस्मानभिगतानेष श्रेयसा योजयिष्यति ।
आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ॥ ८९ ॥

शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ।
अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ ९० ॥

अगस्त्यं नियताहारं सततं पर्युपासते ।
नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ॥ ९१ ॥

नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ।
अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह ॥ ९२ ॥

वसन्ति नियताहारा धर्ममाराधयिष्णवः ।
अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः ॥ ९३ ॥

त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः ।
यक्षत्वममरत्वं च राज्यानि विविधानि च ॥ ९४ ॥

अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ।
आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः ।
निवेदयेह मां प्राप्तमृषये सीतया सह ॥ ९५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकादशः सर्गः ॥ ११ ॥


सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।


గమనిక: శరన్నవరాత్రుల సందర్భంగా "శ్రీ లలితా స్తోత్రనిధి" మరియు "శ్రీ దుర్గా స్తోత్రనిధి" పుస్తకములు కొనుగోలుకు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed