Anna Suktam (Yajur veda) – अन्न सूक्तम् (यजुर्वेदीय)


(तै।ब्रा।२।८।८।१)

अ॒हम॑स्मि प्रथ॒मजा ऋ॒तस्य॑ ।
पूर्वं॑ दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभि॑: ।
यो मा॒ ददा॑ति॒ स इदे॒व माऽऽवा᳚: ।
अ॒हमन्न॒मन्न॑म॒दन्त॑मद्मि ।
पूर्व॑म॒ग्नेरपि॑ दह॒त्यन्न᳚म् ।
य॒त्तौ हा॑ऽऽसाते अहमुत्त॒रेषु॑ ।
व्यात्त॑मस्य प॒शव॑: सु॒जम्भ᳚म् ।
पश्य॑न्ति॒ धीरा॒: प्रच॑रन्ति॒ पाका᳚: ।
जहा᳚म्य॒न्यं न ज॑हाम्य॒न्यम् ।
अ॒हमन्नं॒ वश॒मिच्च॑रामि ॥ १

स॒मा॒नमर्थं॒ पर्ये॑मि भु॒ञ्जत् ।
को मामन्नं॑ मनु॒ष्यो॑ दयेत ।
परा॑के॒ अन्नं॒ निहि॑तं लो॒क ए॒तत् ।
विश्वै᳚र्दे॒वैः पि॒तृभि॑र्गु॒प्तमन्न᳚म् ।
यद॒द्यते॑ लु॒प्यते॒ यत्प॑रो॒प्यते᳚ ।
श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ।
म॒हान्तौ॑ च॒रू स॑कृद्दु॒ग्धेन॑ पप्रौ ।
दिवं॑ च॒ पृश्नि॑ पृथि॒वीं च॑ सा॒कम् ।
तत्सं॒‍पिब॑न्तो॒ न मि॑नन्ति वे॒धस॑: ।
नैतद्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ २

अन्नं॑ प्रा॒णमन्न॑मपा॒नमा॑हुः ।
अन्नं॑ मृ॒त्युं तमु॑ जी॒वातु॑माहुः ।
अन्नं॑ ब्र॒ह्माणो॑ ज॒रसं॑ वदन्ति ।
अन्न॑माहुः प्र॒जन॑नं प्र॒जाना᳚म् ।
मोघ॒मन्नं॑ विन्दते॒ अप्र॑चेताः ।
स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।
नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यम् ।
केव॑लाघो भवति केवला॒दी ।
अ॒हं मे॒घः स्त॒नय॒न्वर्ष॑न्नस्मि ।
माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ ३

[**
अह॒ग्ं सद॒मृतो॑ भवामि ।
मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ।
**]


इतर वेद सूक्तानि पश्यतु ।

Report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed
%d bloggers like this: