Aarthi Hara Stotram – आर्तिहर स्तोत्रम्


श्रीशम्भो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम् ।
सन्तापमपाकुरु मे मन्ता परमेश तव दयायाः स्याम् ॥ १ ॥

अवसीदामि यदार्तिभिरनुगुणमिदमोकसोऽंहसां खलु मे ।
तव सन्नवसीदामि यदन्तकशासन न तत्तवानुगुणम् ॥ २ ॥

देव स्मरन्ति तव ये तेषां स्मरतोऽपि नार्तिरिति कीर्तिम् ।
कलयसि शिव पाहीति क्रन्दन् सीदाम्यहं किमुचितमिदम् ॥ ३ ॥

आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति ।
आर्तिषु मज्जयसे मां किं ब्रूयां तव कृपैकपात्रमहम् ॥ ४ ॥

मन्दाग्रणीरहं तव मयि करुणां घटयितुं विभो नालम् ।
आक्रष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिमि ॥ ५ ॥

त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोऽहमीश्वरस्त्वमसि ।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया न त्वाम् ॥ ६ ॥

आश्रितमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे ।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसन्ति जगति सन्तस्त्वाम् ॥ ७ ॥

प्रहराहरेति वादी फणितमदाख्य इति पालितो भवता ।
शिव पाहीति वदोऽहं श्रितो न किं त्वां कथं न पाल्यस्ते ॥ ८ ॥

शरणं व्रज शिवमार्तीः स तव हरेदिति सतां गिराऽहं त्वाम् ।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम् ॥ ९ ॥

इति श्रीश्रीधरवेङ्कटेशार्यकृतं आर्तिहरस्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।


పైరసీ ప్రకటన : నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ మరియు శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు కలిసి మా రెండు పుస్తకాలను ("శ్రీ వారాహీ స్తోత్రనిధి" మరియు "శ్రీ శ్యామలా స్తోత్రనిధి") ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed