Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणीयं षट्षष्टितमदशकम् (६६) – गोपीजनाह्लादनम्
उपयातानां सुदृशां
कुसुमायुधबाणपातविवशानाम् ।
अभिवाञ्छितं विधातुं
कृतमतिरपि ता जगाथ वाममिव ॥ ६६-१ ॥
गगनगतं मुनिनिवहं
श्रावयितुं जगिथ कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं
कर्म तु नो निर्मलस्य विश्वास्यम् ॥ ६६-२ ॥
आकर्ण्य ते प्रतीपां
वाणीमेणीदृशः परं दीनाः ।
मा मा करुणासिन्धो
परित्यजेत्यतिचिरं विलेपुस्ताः ॥ ६६-३ ॥
तासां रुदितैर्लपितैः
करुणाकुलमानसो मुरारे त्वम् ।
ताभिः समं प्रवृत्तो
यमुनापुलिनेषु काममभिरन्तुम् ॥ ६६-४ ॥
चन्द्रकरस्यन्दलस-
-त्सुन्दरयमुनातटान्तवीथीषु ।
गोपीजनोत्तरीयै-
-रापादितसंस्तरो न्यषीदस्त्वम् ॥ ६६-५ ॥
सुमधुरनर्मालपनैः
करसङ्ग्रहणैश्च चुम्बनोल्लासैः ।
गाढालिङ्गनसङ्गै-
-स्त्वमङ्गनालोकमाकुलीचकृषे ॥ ६६-६ ॥
वासोहरणदिने य-
-द्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो रस-
-विवशस्वान्तानां कान्तसुभ्रुवामदधाः ॥ ६६-७ ॥
कन्दलितघर्मलेशं
कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत त्वां त्रिजग-
-त्सुन्दरमुपगूह्य नन्दिता बालाः ॥ ६६-८ ॥
विरहेष्वङ्गारमयः
शृङ्गारमयश्च सङ्गमेऽपि त्वम् ।
नितरामङ्गारमय-
-स्तत्र पुनः सङ्गमेऽपि चित्रमिदम् ॥ ६६-९ ॥
राधातुङ्गपयोधर-
-साधुपरीरम्भलोलुपात्मानम् ।
आराधये भवन्तं
पवनपुराधीश शमय सकलगदान् ॥ ६६-१० ॥
इति षट्षष्टितमदशकं समाप्तम् ।
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

