Sri Ramapati Ashtakam – श्री रमापत्यष्टकम्


जगदादिमनादिमजं पुरुषं
शरदम्बरतुल्यतनुं वितनुम् ।
धृतकञ्जरथाङ्गगदं विगदं
प्रणमामि रमाधिपतिं तमहम् ॥ १ ॥

कमलाननकञ्जरतं विरतं
हृदि योगिजनैः कलितं ललितम् ।
कुजनैः सुजनैरलभं सुलभं
प्रणमामि रमाधिपतिं तमहम् ॥ २ ॥

मुनिबृन्दहृदिस्थपदं सुपदं
निखिलाध्वरभागभुजं सुभुजम् ।
हृतवासवमुख्यमदं विमदं
प्रणमामि रमाधिपतिं तमहम् ॥ ३ ॥

हृतदानवदृप्तबलं सुबलं
स्वजनास्तसमस्तमलं विमलम् ।
समपास्त गजेन्द्रदरं सुदरं
प्रणमामि रमाधिपतिं तमहम् ॥ ४ ॥

परिकल्पितसर्वकलं विकलं
सकलागमगीतगुणं विगुणम् ।
भवपाशनिराकरणं शरणं
प्रणमामि रमाधिपतिं तमहम् ॥ ५ ॥

मृतिजन्मजराशमनं कमनं
शरणागतभीतिहरं दहरम् ।
परिपुष्टमहाहृदयं सुदयं
प्रणमामि रमाधिपतिं तमहम् ॥ ६ ॥

सकलावनिबिम्बधरं स्वधरं
परिपूरितसर्वदिशं सुदृशम् ।
गतशोकमशोककरं सुकरं
प्रणमामि रमाधिपतिं तमहम् ॥ ७ ॥

मथितार्णवराजरसं सरसं
ग्रथिताखिललोकहृदं सुहृदम् ।
प्रथिताद्भुतशक्तिगुणं सुगुणं
प्रणमामि रमाधिपतिं तमहम् ॥ ८ ॥

सुखराशिकरं भवबन्धहरं
परमाष्टकमेतदनन्यमतिः ।
पठतीह तु योऽनिशमेव नरो
लभते खलु विष्णुपदं स परम् ॥ ९ ॥

इति श्रीमत्परमहंस स्वामि ब्रह्मानन्द विरचितं श्री रमापत्यष्टकम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed