Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यस्माद्विश्वं जातमिदं चित्रमतर्क्यं
यस्मिन्नानन्दात्मनि नित्यं रमते वै ।
यत्रान्ते सम्याति लयं चैतदशेषं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ १ ॥
यस्याज्ञानाज्जन्मजरारोगकदम्बं
ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु ।
गत्वा यत्रायाति पुनर्नो भवभूमिं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ २ ॥
तिष्ठन्नन्तर्यो यमयत्येतदजस्रं
यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम् ।
सर्वं यस्येदं च वशे तिष्ठति विश्वं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ ३ ॥
धर्मोऽधर्मेणेह तिरस्कारमुपैति
काले यस्मिन् मत्स्यमुखैश्चारुचरित्रैः ।
नानारूपैः पाति तदा योऽवनिबिम्बं
तं गोपालं सन्ततकालं प्रति वन्दे ॥ ४ ॥
प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा
रुद्ध्वा चित्तं यं हृदि पश्यन्ति समाधौ ।
ज्योतीरूपं योगिजना मोदनिमग्ना-
-स्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ५ ॥
भानुश्चन्द्रश्चोडुगणश्चैव हुताशो
यस्मिन्नैवाभाति तडिच्चापि कदापि ।
यद्भासा चाभाति समस्तं जगदेतत्
तं गोपालं सन्ततकालं प्रति वन्दे ॥ ६ ॥
सत्यं ज्ञानं मोदमवोचुर्निगमा यं
यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः ।
शेतेऽनन्तोऽनन्ततनावम्बुनिधौ य-
-स्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ७ ॥
शैवाः प्राहुर्यं शिवमन्ये गणनाथं
शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।
नानाकारैर्भाति य एकोऽखिलशक्ति-
-स्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ८ ॥
श्रीमद्गोपालाष्टकमेतत् समधीते
भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।
हित्वा तूर्णं पापकलापं स समेति
पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९ ॥
इति श्रीमत्परमहंस स्वामि ब्रह्मानन्द विरचितं श्री गोपालाष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.