Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीगायत्री कवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः गायत्री देवता भूः बीजं भुवः शक्तिः स्वः कीलकं श्रीगायत्री प्रीत्यर्थे जपे विनियोगः ।
ध्यानम् –
पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् ।
सावित्री ब्रह्मवरदां चन्द्रकोटिसुशीतलाम् ॥ १ ॥
त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् ।
वराऽभयाङ्कुशकशां हेमपात्राक्षमालिकाम् ॥ २ ॥
शङ्खचक्राब्जयुगलं कराभ्यां दधती पराम् ।
सितपङ्कजसंस्था च हंसारूढां सुखस्मिताम् ॥ ३ ॥
ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ॥ ४ ॥
ब्रह्मोवाच ।
विश्वामित्र महाप्राज्ञ गायत्रीकवचं शृणु ।
यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् ॥ ५ ॥
सावित्री मे शिरः पातु शिखायाममृतेश्वरी ।
ललाटं ब्रह्मदैवत्या भ्रुवौ मे पातु वैष्णवी ॥ ६ ॥
कर्णौ मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिके ।
गायत्री वदनं पातु शारदा दशनच्छदौ ॥ ७ ॥
द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।
साङ्ख्यायनी नासिका मे कपोलं चन्द्रहासिनी ॥ ८ ॥
चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।
स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥ ९ ॥
उदरं विश्वभोक्त्री च नाभिं पातु सुरप्रिया ।
जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥ १० ॥
पार्श्वौ मे पातु पद्माक्षी गुह्यं मे गोत्रिकाऽवतु ।
ऊर्वोरोङ्काररूपा च जान्वोः सन्ध्यात्मिकाऽवतु ॥ ११ ॥
जङ्घयोः पातु चाऽक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।
सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥ १२ ॥
सर्वाङ्गं वेदमाता च पातु मे सर्वदाऽनघा ।
इत्येतत् कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् ॥ १३ ॥
पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ।
त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानवाप्नुयात् ॥ १४ ॥
सर्वशास्त्रार्थतत्त्वज्ञः स भवेद्वेदवित्तमः ।
सर्वयज्ञफलं पुण्यं ब्रह्मान्ते समवाप्नुयात् ॥ १५ ॥
इति श्रीविश्वामित्रसंहितोक्तं श्री गायत्री कवचम् ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.