Sri Bala Vanchadatri Stotram – श्री बाला वाञ्छादात्री स्तोत्रम्


विद्याक्षमालासुकपालमुद्रा-
-राजत्करां कुन्दसमानकान्तिम् ।
मुक्ताफलालङ्कृतशोभनाङ्गीं
बालां भजे वाङ्मयसिद्धिहेतोः ॥ १ ॥

भजे कल्पवृक्षाध उद्दीप्तरत्ना-
-ऽऽसने सन्निषण्णां मदाघूर्णिताक्षीम् ।
करैर्बीजपूरं कपालेषुचापं
सपाशाङ्कुशां रक्तवर्णां दधानाम् ॥ २ ॥

व्याख्यानमुद्रामृतकुम्भविद्यां
अक्षस्रजं सन्दधतीं कराब्जैः ।
चिद्रूपिणीं शारदचन्द्रकान्तिं
बालां भजे मौक्तिकभूषिताङ्गीम् ॥ ३ ॥

पाशाङ्कुशौ पुस्तकमक्षसूत्रं
करैर्दधानां सकलामरार्च्याम् ।
रक्तां त्रिणेत्रां शशिशेखरां तां
भजेऽखिलर्घ्यै त्रिपुरां च बालाम् ॥ ४ ॥

आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं
बन्धूकप्रसवारुणाम्बरधरां रक्ताम्बुजाध्यासिनीम् ।
त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं
मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ५ ॥

आधारे तरुणार्कबिम्बरुचिरं सोमप्रभं वाग्भवं
बीजं मन्मथमिन्द्रगोपकनिभं हृत्पङ्कजे संस्थितम् ।
रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं
ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मं पदम् ॥ ६ ॥

रक्ताम्बरां चन्द्रकलावतंसां
समुद्यदादित्यनिभां त्रिणेत्राम् ।
विद्याक्षमालाभयदानहस्तां
ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ७ ॥

अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।
मुद्रापुस्तलसद्बाहा पातु मां परमा कला ॥ ८ ॥

मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् ।
पद्मासनगतां बालां ध्यायामि धनसिद्धये ॥ ९ ॥

वरपीयूषकलशपुस्तकाभीतिधारिणीम् ।
सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ १० ॥

शुक्लाम्बरां शशाङ्काभां ध्यायाम्यारोग्यदायिनीम् ।
सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ॥ ११ ॥

अकारादिक्षकारान्तवर्णावयवशालिनीम् ।
प्रसन्नामरुणामीक्षे सौमनस्यप्रदां शिवाम् ॥ १२ ॥

पुस्तकजपवटहस्ते वरदाभयचिह्नबाहुलते ।
कर्पूरामलदेहे वागीश्वरि चोदयाशु मम चेतः ॥ १३ ॥

इति श्री बाला वाञ्छादात्री स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed