Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वन्दे सिन्दूरवदनां तरुणारुणसन्निभाम् ।
अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥
फुल्लपङ्कजमध्यस्थां मन्दस्मितमनोहराम् ।
दशभिर्वयसा हारियौवनाचार रञ्जिताम् ।
काश्मीरकर्दमालिप्ततनुच्छाया विराजिताम् ॥
वाग्भवः पातु शिरसि कामराजस्तथा हृदि ।
शक्तिबीजं सदा पातु नाभौ गुह्ये च पादयोः ॥ १ ॥
ब्रह्माणी पातु मां पूर्वे दक्षिणे पातु वैष्णवी ।
पश्चिमे पातु वाराही उत्तरे तु महेश्वरी ॥ २ ॥
आग्नेय्यां पातु कौमारी महालक्ष्मीश्च निरृतौ ।
वायव्यां पातु चामुण्डी इन्द्राणी पातु चैश्वरे ॥ ३ ॥
अधश्चोर्ध्वं च प्रसृता पृथिव्यां सर्वमङ्गला ।
ऐंकारिणी शिरः पातु क्लींकारी हृदयं मम ॥ ४ ॥
सौः पातु पादयुग्मं मे सर्वाङ्गं सकलाऽवतु ।
ओं वाग्भवी शिरः पातु पातु फालं कुमारिका ॥ ५ ॥
भ्रूयुग्मं शङ्करी पातु श्रुतियुग्मं गिरीश्वरी ।
नेत्रे त्रिणेत्रवरदा नासिकां मे महेश्वरी ॥ ६ ॥
ओष्ठौ पूगस्तनी पातु चिबुकं दशवर्षिकी ।
कपोलौ कमनीयाङ्गी कण्ठं कामार्चितावतु ॥ ७ ॥
बाहू पातु वराभीतिधारिणी परमेश्वरी ।
वक्षः प्रदेशं पद्माक्षी कुचौ काञ्चीनिवासिनी ॥ ८ ॥
उदरं सुन्दरी पातु नाभिं नागेन्द्रवन्दिता ।
पार्श्वे पशुत्वहारिणी पृष्ठं पापविनाशिनी ॥ ९ ॥
कटिं कर्पूरविद्येशी जघनं ललिताम्बिका ।
मेढ्रं महेशरमणी पातूरू फाललोचना ॥ १० ॥
जानुनी जयदा पातु गुल्फौ विद्याप्रदायिनी ।
पादौ शिवार्चिता पातु प्रपदौ त्रिपदेश्वरी ॥ ११ ॥
सर्वाङ्गं सर्वदा पातु मम त्रिपुरसुन्दरी ।
वित्तं वित्तेश्वरी पातु पशून्पशुपतिप्रिया ।
पुत्रान्पुत्रप्रदा पातु धर्मान्धर्मप्रदायिनी ॥ १२ ॥
क्षेत्रं क्षेत्रेशवनिता गृहं गम्भीरनादिनी ।
धातून्धातुमयी पातु सर्वं सर्वेश्वरी मम ॥ १३ ॥
रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।
तत्सर्वं रक्ष मे देवि बाले त्वं पापनाशिनी ॥ १४ ॥
इति श्री बाला कवचम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.