Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥
पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः
बौद्धध्वान्तनिरासवासरपतिर्जैनेभकण्ठीरवः ।
मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ १ ॥
पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालयमन्थदण्डाः ।
वेदान्तसारसुखदर्शनदीपदण्डाः
रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ २ ॥
चारित्रोद्धारदण्डं चतुरनयपथालङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम्
धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥
त्रय्या माङ्गल्यसूत्रं त्रिथायुगपयुग रोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयविदां सम्बदांहारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥
पाषण्डसागरमहाबडबामुखाग्निः
श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणि मण्डपमार्गदायी
रामानुजो विजयते यतिराजराजः ॥ ५ ॥
इतर श्री गुरु स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.