Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्रीगायत्र्यष्टोत्तरशत दिव्यनामस्तोत्र मन्त्रस्य ब्रह्माविष्णुमहेश्वरा ऋषयः ऋग्यजुस्सामाथर्वाणि छन्दांसि परब्रह्मस्वरूपिणी गायत्री देवता ओं तद्बीजं भर्गः शक्तिः धियः कीलकं मम गायत्रीप्रसाद सिद्ध्यर्थे जपे विनियोगः ।
तरुणादित्यसङ्काशा सहस्रनयनोज्ज्वला ।
स्यन्दनोपरिसंस्थाना धीरा जीमूतनिस्स्वना ॥ १ ॥
मत्तमातङ्गगमना हिरण्यकमलासना ।
धीजनोद्धारनिरता योगिनी योगधारिणी ॥ २ ॥
नटनाट्यैकनिरता प्रणवाद्यक्षरात्मिका ।
घोराचारक्रियासक्ता दारिद्र्यच्छेदकारिणी ॥ ३ ॥
यादवेन्द्रकुलोद्भूता तुरीयपदगामिनी ।
गायत्री गोमती गङ्गा गौतमी गरुडासना ॥ ४ ॥
गेया गानप्रिया गौरी गोविन्दपरिपूजिता ।
गन्धर्वनगराकारा गौरवर्णा गणेश्वरी ॥ ५ ॥
गुणाश्रया गुणवती गुह्यका गणपूजिता ।
गुणत्रयसमायुक्ता गुणत्रयविवर्जिता ॥ ६ ॥
गुहावासा गुहाचारा गुह्या गन्धर्वरूपिणी ।
गार्ग्यप्रिया गुरुपथा गुह्यलिङ्गाङ्कधारिणी ॥ ७ ॥
सावित्री सूर्यतनया सुषुम्णानाडिभेदिनी ।
सुप्रकाशा सुखासीना सुव्रता सुरपूजिता ॥ ८ ॥
सुषुप्त्यवस्था सुदती सुन्दरी सागराम्बरा ।
सुधांशुबिम्बवदना सुस्तनी सुविलोचना ॥ ९ ॥
शुभ्रांशुनासा सुश्रोणी संसारार्णवतारिणी ।
सामगानप्रिया साध्वी सर्वाभरणभूषिता ॥ १० ॥
सीता सर्वाश्रया सन्ध्या सफला सुखदायिनी ।
वैष्णवी विमलाकारा माहेन्द्री मातृरूपिणी ॥ ११ ॥
महालक्ष्मीर्महासिद्धिर्महामाया महेश्वरी ।
मोहिनी मदनाकारा मधुसूदनसोदरी ॥ १२ ॥
मीनाक्षी क्षेमसम्युक्ता नगेन्द्रतनया रमा ।
त्रिविक्रमपदाक्रान्ता त्रिसर्वा त्रिविलोचना ॥ १३ ॥
सूर्यमण्डलमध्यस्था चन्द्रमण्डलसंस्थिता ।
वह्निमण्डलमध्यस्था वायुमण्डलसंस्थिता ॥ १४ ॥
व्योममण्डलमध्यस्था चक्रस्था चक्ररूपिणी ।
कालचक्रविधानज्ञा चन्द्रमण्डलदर्पणा ॥ १५ ॥
ज्योत्स्नातपेनलिप्ताङ्गी महामारुतवीजिता ।
सर्वमन्त्राश्रिता धेनुः पापघ्नी परमेश्वरी ॥ १६ ॥
चतुर्विंशतिवर्णाढ्या चतुर्वर्गफलप्रदा ।
मन्देहराक्षसघ्नी च षट्कुक्षिः त्रिपदा शिवा ॥ १७ ॥
जपपारायणप्रीता ब्राह्मण्यफलदायिनी ।
नमस्तेऽस्तु महालक्ष्मी महासम्पत्तिदायिनि ॥ १८ ॥
नमस्ते करुणामूर्ते नमस्ते भक्तवत्सले ।
गायत्रीं पूजयेद्यस्तु शतैरष्टोत्तरैः पृथक् ॥ १९ ॥
तस्य पुण्यफलं वक्तुं ब्रह्मणापि न शक्यते ।
प्रातःकाले च मध्याह्ने सायाह्ने च रघूत्तम ॥ २० ॥
ये पठन्तीह लोकेऽस्मिन् सर्वान् कामानवाप्नुयात् ।
पठनादेव गायत्री नाम्नामष्टोत्तरं शतम् ॥ २१ ॥
ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः ।
दिने दिने पठेद्यस्तु गायत्रीस्तवमुत्तमम् ॥ २२ ॥
स नरो मुक्तिमाप्नोति पुनरावृत्तिवर्जितम् ।
पुत्रप्रदमपुत्राणां दरिद्राणां धनप्रदम् ॥ २३ ॥
रोगिणां रोगशमनं सर्वैश्वर्यप्रदायकम् ।
बहुना किमिहोक्तेन स्तोत्रं सर्वफलप्रदम् ॥ २४ ॥
इति श्रीविश्वामित्र प्रोक्तं श्री गायत्र्यष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री गायत्री स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.