Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यस्मिन्निदं यत इदं यदिदं यदस्मात्
उत्तीर्णरूपमभिपश्यति यत्समस्तम् ।
नो दृश्यते च वचसां मनसश्च दूरे
यद्भाति चादिमहसे प्रणमामि तस्मै ॥ १-१ ॥
न स्त्री पुमान् न सुरदैत्यनरादयो न
क्लीबं न भूतमपि कर्मगुणादयश्च ।
भूमंस्त्वमेव सदनाद्यविकार्यनन्तं
सर्वं त्वया जगदिदं विततं विभाति ॥ १-२ ॥
रूपं न तेऽपि बहुरूपभृदात्तशक्ति-
-र्नाट्यं तनोषि नटवत्खलु विश्वरङ्गे ।
वर्षाणि ते सरसनाट्यकलाविलीना
भक्ता अहो सहृदया क्षणवन्नयन्ति ॥ १-३ ॥
रूपानुसारि खलु नाम ततो बुधैस्त्वं
देवीति देव इति चासि निगद्यमाना ।
देव्यां त्वयीर्यस उमा कमलाऽथ वाग् वा
देवे तु षण्मुख उमापतिरच्युतो वा ॥ १-४ ॥
त्वं ब्रह्म शक्तिरपि धातृरमेशरुद्रैः
ब्रह्माण्डसर्गपरिपालनसंहृतीश्च ।
राज्ञीव कारयसि सुभ्रू निजाज्ञयैव
भक्तेष्वनन्यशरणेषु कृपावती च ॥ १-५ ॥
माता करोति तनयस्य कृते शुभानि
कर्माणि तस्य पतने भृशमेति दुःखम् ।
वृद्धौ सुखं च तव कर्म न नापि दुःखं
त्वं ह्येव कर्मफलदा जगतां विधात्री ॥ १-६ ॥
सर्वत्र वर्षसि दयामत एव वृष्ट्या
सिक्तः सुबीज इव वृद्धिमुपैति भक्तः ।
दुर्बीजवद्व्रजति नाशमभक्त एव
त्वं निर्घृणा न विषमा न च लोकमातः ॥ १-७ ॥
सर्वोपरीश्वरि विभाति सुधासमुद्र-
-स्तन्मध्यतः परिवृते विविधैः सुदुर्गैः ।
छत्रायिते त्रिजगतां भवती मणिद्वी-
-पाख्ये शिवे निजपदे हसिताननाऽऽस्ते ॥ १-८ ॥
यस्ते पुमानभिदधाति महत्त्वमुच्चै-
-र्यो नाम गायति शृणोति च ते विलज्जः ।
यश्चातनोति भृशमात्मनिवेदनं ते
स स्वान्यघानि विधुनोति यथा तमोऽर्कः ॥ १-९ ॥
त्वां निर्गुणां च सगुणां च पुमान् विरक्तो
जानाति किञ्चिदपि नो विषयेषु सक्तः ।
ज्ञेया भव त्वमिह मे भवतापहन्त्रीं
भक्तिं ददस्व वरदे परिपाहि मां त्वम् ॥ १-१० ॥
द्वितीय दशकम् (२) – हयग्रीवकथा >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.