Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ इन्द्रवरदानम् ॥
प्रतियाते तु काकुत्स्थे महेन्द्रः पाकशासनः । [प्रतिप्रयाते]
अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ १ ॥
अमोघं दर्शनं राम तवास्माकं परन्तप ।
प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥ २ ॥
एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।
लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ ३ ॥
यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर ।
वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥ ४ ॥
मम हेतोः पराक्रान्ता ये गता यमसादनम् ।
ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ ५ ॥
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः ।
मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ॥ ६ ॥
त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे ।
नीरुजो निर्व्रणांश्चैव सम्पन्नबलपौरुषान् ॥ ७ ॥
गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद ।
अकाले चापि मुख्यानि मूलानि च फलानि च ॥ ८ ॥
नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ।
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ॥ ९ ॥
महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ।
महानयं वरस्तात त्वयोक्तो रघुनन्दन ॥ १० ॥
द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ।
समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ॥ ११ ॥
ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ।
नीरुजो निर्व्रणाश्चैव सम्पन्नबलपौरुषाः ॥ १२ ॥
समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ।
सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ॥ १३ ॥
सर्व एव समेष्यन्ति सम्युक्ताः परया मुदा ।
अकाले पुष्पशबलाः फलवन्तश्च पादपाः ॥ १४ ॥
भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ।
सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ॥ १५ ॥
ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।
बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥ १६ ॥
ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ।
काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ॥ १७ ॥
ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ।
गच्छायोध्यामितो वीर विसर्जय च वानरान् ॥ १८ ॥
मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ।
शत्रुघ्नं च महात्मानं मातॄः सर्वाः परन्तप ॥ १९ ॥
भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।
अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय ॥ २० ॥
एवमुक्त्वा तमामन्त्र्य रामं सौमित्रिणा सह ।
विमानैः सूर्यसङ्काशैर्हृष्टा जग्मुः सुरा दिवम् ॥ २१ ॥
अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।
लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ॥ २२ ॥
ततस्तु सा लक्ष्मणरामपालिता
महाचमूर्हृष्टजना यशस्विनी ।
श्रिया ज्वलन्ती विरराज सर्वतो
निशा प्रणीतेव हि शीतरश्मिना ॥ २३ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥
युद्धकाण्ड चतुर्विंशत्युत्तरशततमः सर्गः (१२४) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

