Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सूत उवाच –
शृणुध्वं मुनयः सर्वे गङ्गास्तवमनुत्तमम् ।
शोकमोहहरं पुंसामृषिभिः परिकीर्तितम् ॥ १ ॥
ऋषय ऊचुः –
इयं सुरतरङ्गिणी भवनवारिधेस्तारिणी
स्तुता हरिपदाम्बुजादुपगता जगत्संसदः ।
सुमेरुशिखरामरप्रियजलामलक्षालिनी
प्रसन्नवदना शुभा भवभयस्य विद्राविणी ॥ २ ॥
भगीरथरथानुगा सुरकरीन्द्रदर्पापहा
महेशमुकुटप्रभा गिरिशिरःपताका सिता ।
सुरासुरनरोरगैरजभवाच्युतैः संस्तुता
विमुक्तिफलशालिनी कलुषनाशिनी राजते ॥ ३ ॥
पितामहकमण्डलुप्रभवमुक्तिबीजा लता
श्रुतिस्मृतिगणस्तुतद्विजकुलालवालावृता ।
सुमेरुशिखराभिदा निपतिता त्रिलोकावृता
सुधर्मफलशालिनी सुखपलाशिनी राजते ॥ ४ ॥
चरद्विहगमालिनी सगरवंशमुक्तिप्रदा
मुनीन्द्रवरनन्दिनी दिवि मता च मन्दाकिनी ।
सदा दुरितनाशिनी विमलवारिसन्दर्शन-
प्रणामगुणकीर्तनादिषु जगत्सु संराजते ॥ ५ ॥
महाभिषसुताङ्गना हिमगिरीशकूटस्तना
सफेनजलहासिनी सितमरालसञ्चारिणी ।
चलल्लहरिसत्करा वरसरोजमालाधरा
रसोल्लसितगामिनी जलधिकामिनी राजते ॥ ६ ॥
क्वचिन्मुनिगणैः स्तुता क्वचिदनन्तसम्पूजिता
क्वचित्कलकलस्वना क्वचिदधीरयादोगणा ।
क्वचिद्रविकरोज्ज्वला क्वचिदुदग्रपाताकुला
क्वचिज्जनविगाहिता जयति भीष्ममाता सती ॥ ७ ॥
स एव कुशली जनः प्रणमतीह भागीरथीं
स एव तपसां निधिर्जपति जाह्नवीमादरात् ।
स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं
स एव विजयी प्रभुः सुरतरङ्गिणीं सेवते ॥ ८ ॥
तवामलजलाचितं खगसृगालमीनक्षतं
चलल्लहरिलोलितं रुचिरतीरजम्भालितम् ।
कदा निजवपुर्मुदा सुरनरोरगैः संस्तुतोऽप्यहं
त्रिपथगामिनि प्रियमतीव पश्याम्यहो ॥ ९ ॥
त्वत्तीरे वसतिं तवामलजलस्नानं तव प्रेक्षणं
त्वन्नामस्मरणं तवोदयकथासंलापनं पावनम् ।
गङ्गे मे तव सेवनैकनिपुणोऽप्यानन्दितश्चादृतः
स्तुत्वा चोद्गतपातको भुवि कदा शान्तश्चरिष्याम्यहम् ॥ १० ॥
इत्येतदृषिभिः प्रोक्तं गङ्गास्तवनमुत्तमम् ।
स्वर्ग्यं यशस्यमायुष्यं पठनाच्छ्रवणादपि ॥ ११ ॥
सर्वपापहरं पुंसां बलमायुर्विवर्धनम् ।
प्रातर्मध्याह्नसायाह्ने गङ्गासान्निध्यता भवेत् ॥ १२ ॥
इत्येतद्भार्गवाख्यानं शुकदेवान्मया श्रुतम् ।
पठितं श्रावितं चात्र पुण्यं धन्यं यशस्करम् ॥ १३ ॥
अवतारं महाविष्णोः कल्केः परममद्भुतम् ।
पठतां शृण्वतां भक्त्या सर्वाशुभविनाशनम् ॥ १४ ॥
इति श्रीकल्किपुराणे गङ्गास्तवः ॥
इतर विविध स्तोत्राणि पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

