Yuddha Kanda Sarga 24 – युद्धकाण्ड चतुर्विंशः सर्गः (२४)



॥ रावणप्रतिज्ञा ॥

सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ १ ॥

प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।
पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ २ ॥

ततः शुश्रुवुराक्रुष्टं लङ्कायाः काननौकसः ।
भेरीमृदङ्गसङ्घुष्टं तुमुलं रोमहर्षणम् ॥ ३ ॥

बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः ।
अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ॥ ४ ॥

राक्षसास्तु प्लवङ्गानां शुश्रुवुश्चापि गर्जितम् ।
नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ॥ ५ ॥

दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् ।
जगाम मनसा सीतां दूयमानेन चेतसा ॥ ६ ॥

अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ ७ ॥

दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।
उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ८ ॥

आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण ।
मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ ९ ॥

विमानैर्बहुभिर्लङ्का सङ्कीर्णा भुवि राजते ।
विष्णोः पदमिवाकाशं छादितं पाण्डुरैर्घनैः ॥ १० ॥

पुष्पितैः शोभिता लङ्का वनैश्चैत्ररथोपमैः ।
नानापतङ्गसङ्घुष्टैः फलपुष्पोपगैः शुभैः ॥ ११ ॥

पश्य मत्तविहङ्गानि प्रलीनभ्रमराणि च ।
कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ १२ ॥

इति दाशरथी रामो लक्ष्मणं समभाषत ।
बलं च तद्वै विभजन् शास्त्रदृष्टेन कर्मणा । । १३ ॥

शशास कपिसेनाया बलामादाय वीर्यवान् ।
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ १४ ॥

तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।
आश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १५ ॥

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
तिष्ठेद्वानरवाहिन्याः सव्यं पार्श्वं समाश्रितः ॥ १६ ॥

मूर्ध्नि स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः ।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥ १७ ॥

ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः ।
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ॥ १८ ॥

पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ।
सुविभक्तमहाव्यूहा महावानररक्षिता ॥ १९ ॥

अनीकिनी सा विबभौ यथा द्यौः साभ्रसम्प्लवा ।
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥ २० ॥

आसेदुर्वानरा लङ्कां विमर्दयिषवो रणे ।
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ॥ २१ ॥

इति स्म दधिरे सर्वे मानांसि हरिसत्तमाः ।
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ॥ २२ ॥

सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः ॥ २३ ॥

मोचयामास तं दूतं शुकं रामस्य शासनात् ।
मोचितो रामवाक्येन वानरैश्चाभिपीडितः ॥ २४ ॥

शुकः परमसन्त्रस्तो रक्षोऽधिपमुपागमत् ।
रावणः प्रहसन्नेव शुकं वाक्यमभाषत ॥ २५ ॥

किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे ।
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २६ ॥

ततः स भयसंविग्नस्तदा राज्ञाऽभिचोदितः ।
वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ २७ ॥

सागरस्योत्तरे तीरेऽब्रुवंस्ते वचनं तथा ।
यथा सन्देशमक्लिष्टं सान्त्वयन् श्लक्ष्णया गिरा ॥ २८ ॥

क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमैः ।
गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः ॥ २९ ॥

नैव सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ।
प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥ ३० ॥

स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ३१ ॥

स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम् ।
एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३२ ॥

ऋक्षवानरमुख्यानामनीकानि सहस्रशः । [सङ्घानां]
गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥ ३३ ॥

राक्षसानां बलौघस्य वानरेन्द्रबलस्य च ।
नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ ३४ ॥

पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु ।
सीतां वाऽस्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ ३५ ॥

शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ३६ ॥

यदि मां प्रति युध्येरन्देवगन्धर्वदानवाः ।
नैव सीतां प्रयच्छामि सर्वलोकभयादपि ॥ ३७ ॥

कदा नामाभिधावन्ति राघवं मामकाः शराः ।
वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ३८ ॥

कदा तूणीशयैर्दीप्तैर्गणशः कार्मुकच्युतैः ।
शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ ३९ ॥

तच्चास्य बलमादास्ये बलेन महता वृतः ।
ज्योतिषामिव सर्वेषां प्रभामुद्यन्दिवाकरः ॥ ४० ॥

सागरस्येव मे वेगो मारुतस्येव मे गतिः ।
न हि दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ ४१ ॥

न मे तूणीशयान्बाणान्सविषानिव पन्नगान् ।
रामः पश्यति सङ्ग्रामे तेन मां योद्धुमिच्छति ॥ ४२ ॥

न जानाति पुरा वीर्यं मम युद्धे स राघवः ।
मम चापमयीं वीणां शरकोणैः प्रवादिताम् ॥ ४३ ॥

ज्याशब्दतुमुलां घोरामार्तभीतमहास्वनाम् ।
नाराचतलसन्नादां तां ममाहितवाहिनीम् ।
अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ॥ ४४ ॥

न वासवेनापि सहस्रचक्षुषा
यथाऽस्मि शक्यो वरुणेन वा स्वयम् ।
यमेव वा धर्षयितुं शराग्निना
महाहवे वैश्रवणेन वा पुनः ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥ २४ ॥

युद्धकाण्ड पञ्चविंशः सर्गः (२५)


सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed