Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ विभीषणसङ्ग्रहनिर्णयः ॥
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह ।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ १ ॥
ममापि तु विवक्षाऽस्ति काचित्प्रति विभीषणम् ।
श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥ २ ॥
मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन ।
दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ॥ ३ ॥
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च ।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ ४ ॥
सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः ।
ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ॥ ५ ॥
को नाम स भवेत्तस्य यमेष न परित्यजेत् ।
वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च ॥ ६ ॥
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् ।
इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥ ७ ॥
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च ।
न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥ ८ ॥
अस्ति सूक्ष्मतरं किञ्चिद्यदत्र प्रतिभाति मे ।
प्रत्यक्षं लौकिकं वाऽपि विद्यते सर्वराजसु ॥ ९ ॥
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः ।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥ १० ॥
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान्हितान् ।
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ ११ ॥
यस्तु दोषस्त्वया प्रोक्तो ह्यादानेऽरिबलस्य च ।
तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु ॥ १२ ॥
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ।
पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥ १३ ॥
अव्यग्राश्च प्रहृष्टाश्च न भविष्यन्ति सङ्गताः ।
प्रणादश्च महानेष ततोऽस्य भयमागतम् ॥ १४ ॥ [प्रवादः]
इति भेदं गमिष्यन्ति तस्माद्ग्राह्यो विभीषणः ।
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः ॥ १५ ॥
मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ।
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः ॥ १६ ॥
उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ।
रावणेन प्रणिहितं तमवेहि विभीषणम् ॥ १७ ॥
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ।
राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमिहागतः ॥ १८ ॥
प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वाऽनघ ।
लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह ॥ १९ ॥
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ।
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः ॥ २० ॥
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ।
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो विमृश्य च ॥ २१ ॥
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ।
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ॥ २२ ॥
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन ।
पिशाचान्दानवान्यक्षान्पृथिव्यां चैव राक्षसान् ॥ २३ ॥
अङ्गुल्यग्रेण तान्हन्यामिच्छन्हरिगणेश्वर ।
श्रूयते हि कपोतेन शत्रुः शरणमागतः ॥ २४ ॥
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ।
स हि तं प्रतिजग्राह भार्याहर्तारमागतम् ॥ २५ ॥
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ।
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा ॥ २६ ॥
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ।
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम् ॥ २७ ॥
न हन्यादानृशंस्यार्थमपि शत्रुं परन्तप ।
आर्तो वा यदि वा दृप्तः परेषां शरणागतः ॥ २८ ॥
अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ।
स चेद्भयाद्वा मोहाद्वा कामाद्वाऽपि न रक्षति ॥ २९ ॥
स्वया शक्त्या यथासत्त्वं तत्पापं लोकगर्हितम् । [त्वया,न्यायं]
विनष्टः पश्यतस्तस्यारक्षिणः शरणागतः ॥ ३० ॥
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ।
एवं दोषो महानत्र प्रपन्नानामरक्षणे ॥ ३१ ॥
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ।
करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम् ॥ ३२ ॥
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये ।
सकृदेव प्रपन्नाय तवास्मीति च याचते ॥ ३३ ॥
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ।
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥ ३४ ॥
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ।
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः ॥ ३५ ॥
प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ।
किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह ॥ ३६ ॥
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान्सत्पथे स्थितः ।
मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम् ॥ ३७ ॥
अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ।
तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव ।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ ३८ ॥
ततस्तु सुग्रीववचो निशम्य
तद्धरीश्वरेणाभिहितं नरेश्वरः ।
विभीषणेनाशु जगाम सङ्गमं
पतत्त्रिराजेन यथा पुरन्दरः ॥ ३९ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टादशः सर्गः ॥ १८ ॥
युद्धकाण्ड एकोनविंशः सर्गः (१९) >>
सम्पूर्ण वाल्मीकि रामायणे युद्धकाण्ड पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

