Saptarishi Ramayanam – सप्तर्षि रामायणम्



कश्यपः (बालकाण्डम्) –
जातः श्रीरघुनायको दशरथान्मुन्याश्रयात्ताटकां
हत्वा रक्षितकौशिकक्रतुवरः कृत्वाप्यहल्यां शुभाम् ।
भङ्क्त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो
जित्वार्धाध्वनि भार्गवं पुनरगात् सीतासमेतः पुरीम् ॥ १ ॥

अत्रिः (अयोध्याकाण्डम्) –
दास्या मन्थरया दयारहितया दुर्भेदिता कैकयी
श्रीरामप्रथमाभिषेकसमये माताप्ययाचद्वरौ ।
भर्तारं भरतः प्रशास्तु धरणीं रामो वनं गच्छता-
-दित्याकर्ण्य स चोत्तरं न हि ददौ दुःखेन मूर्छां गतः ॥ २ ॥

भरद्वाजः (आरण्यकाण्डम्) –
श्रीरामः पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो
गङ्गां प्राप्य जटां निबध्य सगुहः सच्चित्रकूटे वसन् ।
कृत्वा तत्र पितृक्रियां सभरतो दत्वाऽभयं दण्डके
प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥ ३ ॥

विश्वामित्रः (किष्किन्धकाण्डम्) –
गत्वा पञ्चवटीमगस्त्यवचनाद्दत्वाऽभयं मौनिनां
छित्वा शूर्पणखास्यकर्णयुगलं त्रातुं समस्तान् मुनीन् ।
हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं
तारारत्नमवैरिराज्यमकरोत्सर्वं च सुग्रीवसात् ॥ ४ ॥

गौतमः (सुन्दरकाण्डम्) –
दूतो दाशरथेः सलीलमुदधिं तीर्त्वा हनूमान् महान्
दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वाङ्गुलेर्मुद्रिकाम् ।
अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुनः
श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥ ५ ॥

जमदग्निः (युद्धकाण्डम्) –
रामो बद्धपयोनिधिः कपिवरैर्वीरैर्नलाद्यैर्वृतो
लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणम् ।
तस्यां न्यस्य विभीषणं पुनरसौ सीतापतिः पुष्पका-
-रूढः सन् पुरमागतः सभरतः सिंहासनस्थो बभौ ॥ ६ ॥

वसिष्ठः (उत्तरकाण्डम्) –
श्रीरामो हयमेधमुख्यमखकृत् सम्यक् प्रजाः पालयन्
कृत्वा राज्यमथानुजैश्च सुचिरं भूरि स्वधर्मान्वितौ ।
पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले
सोऽयोध्यापुरवासिभिश्च सरयूस्नातः प्रपेदे दिवम् ॥ ७ ॥

सर्वे ऋषयः –
श्रीरामस्य कथासुधातिमधुरान् श्लोकानिमानुत्तमान्
ये शृण्वन्ति पठन्ति च प्रतिदिनं तेऽघौघविध्वंसिनः ।
श्रीमन्तो बहुपुत्रपौत्रसहिता भुक्त्वेह भोगांश्चिरं
भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्लभन्ते पदम् ॥ ८ ॥

इति सप्तर्षि रामायणम् ।


इतर श्री राम स्तोत्राणि पश्यतु |


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed