Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
रैभ्य उवाच ।
गदाधरं विबुधजनैरभिष्टुतं
धृतक्षमं क्षुधितजनार्तिनाशनम् ।
शिवं विशालाऽसुरसैन्यमर्दनं
नमाम्यहं हृतसकलाऽशुभं स्मृतौ ॥ १ ॥
पुराणपूर्वं पुरुषं पुरुष्टुतं
पुरातनं विमलमलं नृणां गतिम् ।
त्रिविक्रमं हृतधरणिं बलोर्जितं
गदाधरं रहसि नमामि केशवम् ॥ २ ॥
विशुद्धभावं विभवैरुपावृतं
श्रिया वृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ३ ॥
सुराऽसुरैरर्चितपादपङ्कजं
केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ४ ॥
सितं कृते त्रेतयुगेऽरुणं विभुं
तथा तृतीये नीलवर्णमच्युतम् ।
कलौ युगेऽलिप्रतिमं महेश्वरं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ५ ॥
बीजोद्भवो यः सृजते चतुर्मुखं
तथैव नारायणरूपतो जगत् ।
प्रपालयेद्रुद्रवपुस्तथान्तकृ-
-द्गदाधरो जयतु षडर्धमूर्तिमान् ॥ ६ ॥
सत्त्वं रजश्चैव तमो गुणास्त्रय-
-स्त्वेतेषु विश्वस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो
दधातु धैर्यं मम धर्ममोक्षयोः ॥ ७ ॥
संसारतोयार्णवदुःखतन्तुभि-
-र्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवो
गदाधरो मामुदधौ तु योऽतरत् ॥ ८ ॥
स्वयं त्रिमूर्तिः खमिवात्मनात्मनि
स्वशक्तितश्चाण्डमिदं ससर्ज ह ।
तस्मिन् जलोत्थासनमाप तैजसं
ससर्ज यस्तं प्रणतोऽस्मि भूधरम् ॥ ९ ॥
मत्स्यादिनामानि जगत्सु प्रश्नुते
सुरादिसंरक्षणतो वृषाकपिः ।
मुखस्वरूपेण स सन्ततो विभु-
-र्गदाधरो मे विदधातु सद्गतिम् ॥ १० ॥
इति श्रीवराहपुराणे सप्तमोऽध्याये रैभ्य कृत श्री गदाधर स्तोत्रम् ॥
इतर श्री विष्णु स्तोत्राणि पश्यतु |
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

